SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। अथ दितीया। अम् औट शसिति वयः प्रत्ययाः । तत्र सुमनसमर्चयति सुमनसौ सुमनसो वेत्यादौ श्रूयमाणत्वादसमस्तत्वेन औकारस्य औत्वेन असः अस्त्वेन वाचकत्वं टशावनुबन्धौ कचिदप्यश्रूयमाणत्वान्न वाचकताकुक्षिप्रविष्टाविति । अनुशासनसिद्धस्तु द्वितीयाया अर्थ: अनुशासनं च "कर्मणि द्वितीये"ति तत्र कर्म कर्मत्वं वा तिौयार्थ इत्यादिकमग्रे स्फुटीभविष्यति कर्मपदसङ्केतग्राहक पूोक्तमनुशासनम् । “कर्तुरोप्सिततमं कर्म"ति तत्रानोते: सन्नन्ततया निष्पन्नोऽपोप्साशब्दो रुन्या इच्छ मात्रमभिधत्ते । न त्वाप्तीच्छामिति सन्नन्तस्याप्नोतेरिच्छवार्थः । एवं बीप्सा शब्दो रूढ्या व्याप्तिमभिधत्ते न तु व्याप्लौच्छामिति सन्नन्तस्य व्याप्नोतेाप्तिरवार्थः । एवं सन्न ताप्नोतेः कर्मप्रत्ययेन तेन विषयो विषयताऽऽश्रयो वाऽभिधीयते। एवं "क्तस्य च वर्तमाने” इति विशेषानुशासनेन निष्ठायोगे सिद्धा षष्ठी कर्ट त्वमाधेयत्वखरूपमभिधते । तमम्प्रत्ययस्तु प्रत्यर्थतावच्छेदकान्वितमतिशयं प्रकर्षमभिधत्ते । कर्मपदवाच्यं कर्मशब्दार्थः । धात्वर्थस्य तिङयस्य वा व्यापारस्याश्रयः कर्ट शब्दार्थः । एवं व्यापाराश्रयनिष्ठेच्छाप्रकृष्टविषयः कर्मपदवाच्य इति सत्रार्थः । इच्छा तु व्यापारजनिका बोध्या ग्रामसंयोगो भवत्वितीच्छायां ग्रामसंयोगसाधनं स्पन्द इति ज्ञानात्प्रवृत्यागमनोत्पत्यागमनप्रयोजकेच्छाविषयत्वं ग्रामे कर्मत्वं व्यापारप्रयोजकत्वस्येच्छायां लाभार्थं कर्तरिति पदं तेन
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy