________________
बिभक्त्यर्थनिर्णये। योग इति वाच्यम् । नस्यलेऽन्वयितावच्छेदकावच्छिनप्रतियोगिताकत्त्वस्यैव भेदे भानोपगमात् । नौलत्वावछिन्नप्रतियोगिताकभेदस्य नौलेऽसत्वात् भवतु स्वरूपभेदाभावत्वस्य पदार्थतावच्छेदकतया तदवच्छिन्नप्रतियोगिताकभेदस्य नौले सत्वात्तथा प्रयोगो दुर्वार एवेति । यत्त तिनिपाताभिहितकारकः प्रथमार्थश्चैत्रः पचति तण्डुलः पच्यते छत्तुं सांप्रतं वृक्ष इत्यादौ कर्तृत्वं कर्मत्वं प्रथमयाऽप्यभिधीयते। अत एव प्रातिपदिकार्थविशेष्यकतिर्थान्वयबोधे प्रातिपदिकस्य प्रथमान्ततानियमः । तेन ब्राह्मणस्य पक्तत्वसंप्रदानत्वोभयविवक्षायां पचति ब्राह्मणाय देहोति न प्रयोग: तिङा प्रथमया च कर्टतात्वेनैकाकर्ट ता प्रतिपाद्यते । एकत्वेनैकत्वसंख्येव । एवं प्रातिपदिकार्थविशेष्यकतिर्थप्रकारकान्वयबोधेति
जन्याया इव मुम्जन्याया अपि उपस्थिते: सहकारित्वमत एव चैवः पचत इति न प्रयोगः न वा पचति ब्राक्षणाय देही त्यस्य शटशानजापत्या वारणेऽपि पक्ष्यति देवदत्ताय देहीत्यादि प्रयोगो दुर्वारः । चतुर्थ्यास्तिङर्थकारकानभिधायिखात् । न च चैत्रः सुन्दर इत्यादौन कारकार्थोपपत्तिरिति वाच्यम् । तत्राप्यध्याहृतास्ति क्रियाकट त्वस्य प्रथमया ऽमिधानात् । “अस्तिभवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽस्ती"ति कात्यायनस्मरणात् । न च रामो रावणस्य कल्को म्लेच्छस्य हन्तेत्यादौ कथं क्रियापदाध्याहारः अस्तीत्यर्थस्यान्वेतुमयोग्यत्त्वादिति वाच्यम् । अत्र वाक्यभेदस्यावश्यकत्वे आसौदिति रामोभविष्यतीति कल्किन्यध्याहारसम्भवात् भवतिपर इत्य