________________
* विभत्त्यर्थनिर्णये।
३९ दिति वाच्यम् । कलश: कृष्ण इत्यादौ व्यभिचारवारगाथमव्यवहितोत्तरोत्यत्तिकत्वं जन्यतावच्छेदकेऽवश्यं प्रवशनीयमत एव कर्मधारयस्थले व्यभिचाराप्रसक्तोः । न च शिखौ विनष्टः क्षुदुपहन्तु शक्या सुरभिचन्दनमामातमित्यादौ विनष्टशक्याघातानां तादात्म्यसंसर्गेण शिखिनि क्षुधि सुरभिचन्दने चान्वयो बाधित इति सामानाधिकण्यानुपपत्तिरभेदस्य सुबर्थत्वपक्षे तस्य स्वाश्रयशिखावत्वेन स्वाश्रयोपहननवत्वेन स्वाश्रयसौरभवत्वेन संसर्गेगान्वयसम्भवाद्भवति सामानाधिकरण्य मिति वाच्यम् । ततः परम्परासंसर्गावच्छिन्नशक्तिकर्मतावतोऽभिधानात् । क्षुधो न हितीया ताहशस्य कर्मणस्तादाव्यसंसर्गुणान्वयः क्षुधि निष्पत्यूह एव । शिखाविशिष्टे विनष्टस्य सौरभविशिष्टेचन्दने आघातस्य च तादात्म्यसंसर्गणान्वयः । शिखासौरभं विशेषणमादाय पर्यवस्थति । अवैवार्थे "सविशेषणे हि विधिनिषेधी सति विशेष्यबाधे विशेषणमुपसंक्रामत" इति प्रमाणयन्ति तान्त्रिकाः । एवं युक्त्याऽभेदस्य विभक्त्यर्थे प्रतिहते अनुशासनमपि विभक्तीनां साधुत्व मा ज्ञापयति । तथा हि । "लुपि युक्तवाक्तिवचने इत्येकं सूत्रं लुप्ते प्रत्यये प्रकृतिलिङ्गवचने प्रयोक्तव्ये न तु लवणा यवागूरित्यादौ लवणादिपदव विशेष्यनिघ्नतया लिङ्गवचनान्तरप्रयोगः । यथा पञ्चाला नाम क्षत्रियाः नियतबहुवचनान्तपुल्लिङ्गपञ्चालशब्दविषयास्तेषां निवासे जनपदे प्रवृत्तस्य तद्धिताणो लुघि सति पञ्चाला जनपद इति तथा विदेहा. कुरवो मगधा मल्या अङ्गा