________________
३२
कारक सामान्यविचारः ।
9966
तियोगी तादृशवर्तमानकालध्वंसाधिकरणं वा कालीऽनागतः कालः अत्र वयः काला स्वस्वाधेयत्वेन क्रियायामन्वियन्ति क्वचित् व्यापारे क्वचित्फले तत्र पचति अपवत् पच्यतीत्यादौ व्यापारे कालस्याखयः । न च पचतोत्यत्र वर्तमानकाल आधेयत्वेनान्वेतु अपचदित्यव विद्यमान नाशप्रतियोगित्वमतीतत्वमभ्वेति न त्वतीतकालवृत्तित्वं पच्यतौत्यत्र विद्यमानप्रागभावप्रतियोगित्वादिरूपमनागतत्वमन्वेति न त्वनागतकालवृत्तित्वमिति वाच्यम् । “सदेव सौम्येदमग्र आसीत् " " एकमेवाद्दितीयं ब्रह्म'' तदैचत एकोहं बहु स्यामि " त्यादिश्रुतिवाको भगवत्सत्ताया भगवदिच्छाया अतीतत्वस्य बाधेनानन्वयप्रस - ङ्गात् । एवं भगवान् प्रलयं करिष्यतीत्यादौ भगवत्कृतेभवित्वस्य बाधेनानन्वयप्रसङ्गात् । अतीतकालवृत्तित्वस्य भगवदिच्छायां भाविकालवृत्तित्वस्थ भगवत्कृतौ निष्णुत्यूहतयाऽन्वयसम्भवात् । एवं वर्तमानकालोऽनागतका - लश्च कचित्स्ववृत्तिध्वंसप्रतियोग्यवृत्तित्वेन स्वाधेयत्वेन चोभाभ्यां संबन्धाभ्यामन्वेति यथा वियुज्यते वियोच्यते संयुज्यते संयोच्यते इत्यादौ तेन कृष्णोन त्रियज्यते वि योच्यते व्रत्रमण्डलः गोवर्धनेन संयुज्यते संयोच्यते वा इति नाधुनिक प्रयोगः । अन्यथा कृष्ण वियोगगोवर्धन संयोगयो वर्तमानानागतकालवृत्तित्वेन तथाप्रयोगों दुर्वारः स्यात् । एवं नष्ट अनश्यद्दा इत्यादावतीतकालवृत्तित्वं नाशेन्वेति नश्यति नङ्गयतीत्यादौवर्तमानानागकालयोदर्शिताभ्यां संबन्धाभ्यां नाशे न्वयः इत्थमेव प्रयोगांतिप्रसङ्गे वारिते नातिनश्यति नष्ट इत्यादौ प्रत्ययस्यानागतव