SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सप्तमीविभक्तिविचारः थिकां षष्या सह सप्तमौं ज्ञापयति । “यतश्च निर्धारण" इति सूर्य यतो निर्धारणं ततः षष्ठोसप्तम्यौ विभक्ती भवत इत्यर्थक निर्धारणं तु एकदेशस्य पृथग्भाव: अत एव समुदायादेकदेशस्य पृथक्करणं निर्धारणमिति काशिकाया मुक्तं गवां गोषु वा कृष्णा सम्पन्नक्षौरतमा नराणां नरेषु वा क्षत्रियः शूरतम इत्यादौ षष्ठीसप्तम्योनिर्धारणमर्थ इति । पत्र केचित् । नराणां नरेषु वा क्षत्रियः श रतम इत्यादौ विशेषान्यत्वं व्यारतत्वं तादात्म्यं चेति वयः षष्ठोसप्तम्योरर्थाः । विशेषस्तु समभिव्याहृतक्षत्रियादिविशिष्य गाद्यः व्याहत्तत्वं च भेदप्रतियोगित्वं तथा च क्षत्रियस्य नरविशेषतया चवियान्यत्वस्वरूपं विशेषान्यत्वं नरेन्वेति तथान्वितस्य नरस्य क्षत्रियान्यनरत्वावच्छिन्नाधिकरणतनिरूपिताधेयतया भेदे प्रतियोगित्वविशेषणीभूते स्वयस्तथान्वितस्य भेदप्रतियोगित्वस्य शूरतमन्वयः शूरतमस्य तादाम्येन क्षत्रियेऽन्वयः प्रत्यर्थनरविशेषितस्य तादात्म्यस्य क्षत्रियान्वयः तथा च क्षत्रियान्यनरत्वावच्छिन्नत्ति कभेदप्रतियोगित्ववत्शरतमाभिन्नो नराभिन्नः क्षत्रिय इत्यन्वयबोधः । विशेषान्यत्वोपादानात् नरागां नरेषु वा क्षत्रियो हिजातिरिति न प्रयोगः क्षत्रियान्यरवृत्तिभदप्रतियोगित्वस्य हिजातौ विरहात् हिजातिभेदस्य क्षत्रियान्यचाण्डालादित्तित्वेऽपि क्षत्रियान्यनरत्वावच्छिन्नत्तिकत्वविरहात् भेदप्रतियोगित्वस्यानुपादाने दर्शितवाक्यस्यायोग्यत्वप्रसङ्गः क्षत्रियान्यनरतादात्म्यस्य भरतमे क्षत्रिये च बाधात् न च विशेषान्यत्वभेद
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy