SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ विभक्तार्थनिर्णये । ४५९ बोध्यः । कालार्थ केत्युपादानात् पुरुषेषु पाचकेषु व्रजतोति न प्रयोगः । कृदुपादानात् पुरुषेषु दृष्टचरेषु गच्छतीति न प्रयोगः । एवं गोषु दुह्यमानासु गत इत्यादौ सप्तम्याः कालवृत्तित्वमर्थः काले प्रकृत्यर्थस्य कत्र संबन्धिभावस्याधिकरणतया तत्प्रागभावाधिकरणतया तन्नाशाधिकरणतया वा यथायोग्यमन्वय: विद्य मानदोहन कर्मणां दुद्यमानशब्दार्थानां गोषु तादात्म्येनान्वयः तथाभूतानां गवा सप्तम्यर्थैकदेशे काले वक र्मक दोहनाधिकरणतया ऽन्वयः तथाभूतस्य सप्तम्यर्थस्य कालवृत्ति वस्यागमनादौ क्रियान्तरेऽन्वयः तथा च विद्यमान दोहन कर्माभिन्नानां गवां स्वकर्मकदोह नाधिकरणं यः कालस्तद्वत्यतीतं यदागमनं तत्कर्तेत्यन्वयबोध: कर्मपारतन्त्र्येण भासमानाया दोहनक्रियाया आगमनेऽपि कालघटित परम्परयाऽन्वयः विशिष्टान्वयसामग्रीबलात् क्रियायां परम्परया विशेषणत्वमेवोप- लचकत्वमिति । एवं गोषु धोक्ष्यमाणासु दुग्धासु वागत इत्यादौ सप्तम्यर्थैकदेशे काले गवादेः स्वकर्मकदीहनस्य प्रागभावाधिकरणतया नाशाधिकरणतया वाऽन्यः पूर्ववदन्वयबोधः । प्रकृते दोहनादीनां विद्यमा'नत्वभावत्वातीतत्वानि क्रियाऽन्तरकालवर्तमानस्वत-थाविधकालवृत्तिप्रागभावप्रतियोगि कालवर्त्तित्तथावि कालवृत्तिनाशप्रतियोगि कालवर्त्तिखानि बोष्यानि न तु प्रयोगाधिकरण कालघटितानि वर्तमानत्वादोनि तथासति चागत इत्यत्र निष्ठार्थातीतत्वादेरनन्वयप्र. सङ्गात् । एवं "नष्टेषु धार्तराष्ट्रेषु द्रौणिः सुप्तान -
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy