________________
सप्तमीविभक्विविचारः। वाच्यम् । होपान्तरप्रभातव्यावर्तकैतहीपत्तित्वस्येव गौछादित्तित्वस्यापि व्यावर्तकत्वसम्भवात् यत्न तु दैशिकालिकाधेयत्वयोः कालदेशयोन विशेषण त्वमव्यावर्तकलात् तत्र नावच्छेद्यावच्छेदकभाव उपयते थथा, इदानौं गुणे सत्तेत्यादौ अत्र गुणाधेयत्वं न प्रत्यक्षकाले प्रत्यक्ष कालवृत्तित्वं वा गुणे विशेषणमव्यावर्तकत्वात् किं तु प्रत्यक्षकालाधेयत्वं गुणाधेयत्वं च स्वातन्त्र्येण सत्तायामेव प्रतीयतेऽन्यथानुपपत्तेरिति । एवं वृक्ष शाखायां कपिसंयोग इत्यादौ शाखाधेयत्वं वृक्षविशेषगामिति शाखाऽवच्छेदकत्वेन व्यपदिश्यत इति । “यसिमनग्नौ पचेदन्नं तत्र होमो विधीयते" इत्यादी प्रयोजनकव्यापारस्वरूप: संबन्धो वृत्तिनियामक स्तत्संवन्धावच्छिनामाधेयत्वं सप्तव्यर्थो वन्हिविशेषितः पाकेन्वेति अत एव व्यापारस्तत्प्रयोज्यत्वं वा सप्तम्यर्थ इति तान्त्रिकवाक्ये दर्शिताधेयत्वमेव व्यापारादिशब्देन व्यपदिश्यत इति । क चिद्यापकतासंबन्धोऽपि वृत्तिनियामकः यथा कारतायामनन्यथोसिद्धिर्नियतपूर्ववर्तित्वं , वेत्यादी अत्र व्यापकतासंबन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थी अन्यथासिद्धिविरहे नियतपूर्ववर्तित्वे चान्वेति व्यापकवार्थिका सप्तमौति तान्त्रिकवाक्ये व्यापकत्वशब्देन व्यापकत्वसंबन्धावच्छिन्नमाधेयत्वं प्रत्याय्यते अतो व्यापकत्वस्य न सप्तम्यर्थत्वमनुशासनविरहादिति प्रत्युक्तम् । साधुशब्दस्य मझेतसंबन्धोऽपि वृत्तिनियामकः यथा कर्तरि कृत् भू सत्तायामित्यादावनुशासने "विनायके विघराजद्वैमावरगणाधिपा"इत्यादौ कोशे अत्र सङ्केतसंबन्धा