________________
४३६
सप्तमीविभक्तिविचारः।
अथ सप्तमौ। योस्सुप दूति वयः प्रत्ययाः । अत्र उकारः पकारश्चानुबन्धः क चिदप्यश्रूयमासात्वान्न वाचकताकुक्षिप्रविष्ट इति । सरसि सरसोः सरःसु वा सञ्चरतीत्यादौ श्रूयमाणत्वादिकारस्येवेन ओसस्तत्वेन सो: सुल्वेन वाचकत्वम । अनुशामनसिद्धश्च सप्तम्या अर्थः । अनुशासनं "सप्तम्यधिकरणे चे ति चकारात् दूरान्तिकाथंकशब्देन्योऽपि सप्तमौ भवति यथा दूरे विप्रकृष्टे सविधे पन्तिके इत्यादौ तबाधिकरणमधिकरणत्वमाधेयत्वं बा सप्तम्या अर्थ इति वक्ष्यते । अधिकरणापदसङ्केतग्राहकं पूर्वमुक्तम् । “आधारोऽधिकरण"मिति सत्रं क. तकर्मद्वारा क्रियाया प्राधारो अधिकरणसंतः स्यादित्यर्थकम् । अनभिहितेऽधिकरणे सप्तमी भवति प.. चनी स्थालीत्यादौ न सप्तमी । प्रधिकरणादेः सप्तम्यथस्य कर्तृकर्मान्यतरहारकस्यैव क्रियायामन्वयात् कारकत्वं न तु कारकान्तरहारकाधिकरणस्य क्रियायामवयोऽभ्युपेयते । यदाहुः ।।
कर्तृकर्मव्यवहितामसाक्षाचारयत्क्रियाम् ।
उपकुर्वक्वियासिद्धी शास्त्राधिकरणं स्मृतम् ॥ इति उपकुर्वक्यिासहकारि निरधिकरणयोः कढं कर्मणोः क्रियासिड्यनुपार्जकत्वादधिकरणस्य क्रियासिद्धिसहकारित्वं न च गगनमस्ति गगनं जानातोत्यादौ निरधिकरणस्य कर्तुः कर्मणश्च क्रियासियुपयोगित्वान्नेदं युक्तमिति वाच्यम् । कालाधिकरणस्य गगनादेः सत्तादिक्रियाकर्तृत्वकमायोगित्वाद् इदानों