SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कारकसामान्यविचारः। जभयोपस्थापिते पाके तिर्थान्वयस्य सर्वजनसिद्धतय घास्तिर्थान्वययोग्यत्वादिति तदपि शब्दान्तरार्थी विशेषितस्य स्वार्थस्य विशेषणतया ऽन्वयबोधनायोग्य शब्दः प्रत्यय इति तदपि तादृशयोर्लिङ्गसंख्ययोर्विशेष णतया इन्वययोग्ये सुपि पाकमित्यादौ तादृशस्य पाक स्य कर्मत्वे विशेषणतया इन्वययोग्ये घञ्प्रत्यये चाव्या त्या नादरणीयमिति । तस्मात्प्रत्ययत्वं दुर्वचमिति चे दुच्यते । मार्य कशब्दोत्तरत्वज्ञानाविषयो यः शब्दः शाब्द बोधं नार्जयति स प्रत्ययः प्रकृतीनां नामधातूनां सार्थ कशब्दोत्तरत्वज्ञानाविषयागाामपि शाब्दबोधार्जकत्वं प्रत्ययानां तु मार्थकशब्दोत्तरत्वज्ञानविषयाणामेव तथा- | त्वमिति तथा च स्वार्थविषयकशाब्दसामान्योयाभावप्रयोजकाभावप्रतियोगिसार्थकशब्दोत्तरत्वज्ञानीयोत्तरत्वप्रकारतानिरूपित विशेष्यतावत्मार्थकशब्दत्वं प्रत्ययत्वमिति । राजः पुरुष इत्यादी पुरुषपदे राजपदोत्तरत्वप्रकारकज्ञानविषयतायाः सत्वादतिव्याप्तिरिति प्रतियोग्यन्तं ज्ञानविशेषणम् । पुरुषपदे षड्यन्तराजपदोत्तरवत्तानस्य निरुतप्रतियोगित्वविरहात् पुरुषो राक्ष इत्यतोऽपि शान्दोदयान्नातिव्याप्तिरिति असंभववारणा स्वार्थविषयकत्वं शाब्दविशेषणं राजपुरुष इत्यादिसमा से पुरुषपदे राज पदोत्तरत्वज्ञानं राजपदार्थविशेषणत कपुरुषपदार्थविशेष्यताकशाब्दबोधस्य जनकमत: पुरुष राज इत्यादौ न तथा शाब्दबोधः । पुरुषो राजेत्याद राजपदाथोचितविभक्त्यर्थतादात्म्यस्य पुरुषपदार्थे कि शेषणतया ऽन्वयात् । राजपदार्थस्यानन्वयान्न व्यभिचा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy