________________
षष्ठीविभक्तिविचारः । भयषष्ठीप्रयोगे कर्तरि षष्ठी न माधुरिति ज्ञाप्यते तेन नलस्य पाको भीमस्य पाक इत्यादिप्रयोगाणां नानु पपत्तिः गोपस्य दोह इत्यादिप्रयोगोऽपोष्ट एव अककारयोः स्त्रौप्रत्यययो: प्रयोगे"न शेषे विभाषेति वक्तव्यमिति वार्तिकं स्त्रीप्रत्ययेऽप्रत्ययान्ते प्रकारप्रत्ययान्ते च न कर्तर्याप षष्ठौनिषेधः शेषे उक्तोभय प्रत्ययान्तभिन्ने स्त्रीप्रत्यये कर्तरि विभाषा षष्ठीभवतीत्यर्थकं तेन वलप्रत्ययान्ते स्त्रौप्रत्ययान्ते कर्तकर्मणोरुभयो: षष्ठी यथा रुद्रस्य भेदिका जगतः । रुद्रकर्ट के जगत्कर्मकं भेदनं वाक्यार्थः भावे ण्वुविधानात् भेदनमर्थ :। अकारप्रत्ययान्ते स्त्री प्रत्यान्ते तदुभयोः षष्ठी यथा रुद्रस्य बिभित्मा जगत इत्यादौ रुद्रकर्ट का जगत्कर्मकभेदनेच्छा वाक्यार्थः । अप्रत्यादित्यनेन भावेऽकारविधानात् भेदनेच्छार्थः । एवं भदिका देवदत्तस्य काष्ठानां चित्रीर्षा यज्ञदत्तस्य कटस्येत्यादौ दर्शितरोत्या वाक्यार्थी बोध्यः । शेषे कर्तरि विभाण षष्ठी यथा विचित्रा सूत्रस्य कृतिः पाणिनेः पाणिनिना वेत्यादी अन मत्रपदोत्तरषयाः कर्मत्वमर्थ: पाणिनिपदोत्तरषष्ठौटतीययोः कदृत्वमर्थः कृतावस्वति । काशिकावृत्तौ सुटतिथोरितिमत्रव्याख्याने सौयुटो लिङवागमौ तेन भिन्नविषयत्वात् सुटा बाधो न भवतीत्युक्तं तत्र बाधशब्दः पुमानेव यदि बाधाशब्दः सौप्रत्ययान्तस्तदा सौयुटइति शेषे षष्ठी लिङागमिनोऽन्वयानुरोधात् । षष्ठ्यर्थसंबन्धस्यानुषङ्गेण बाधायामन्वयस्तव सुट्हेतुकत्वाभावः प्रतीयते । सुटेतिहेतौ न तु करणे तृतीया ! कर्तराकाङ्क्षाया