________________
पञ्चमीविभक्तिपिचारः। मोप्रतियोगिकप्रागभावावच्छिन्नभेदघटितसंबन्धेन प्रकृतकृष्णनवमीपूर्वतिथीनामपि तत्तदृशमीप्रागभावबत्वात् तदधिकरणतिथिव्यापकत्वं पूजाविशेषेऽपि न सम्भवतीति वाच्यं खावच्छिन्नकृष्ण नवमीप्रागभावाधिकरणत्वसंबन्धेन खावच्छिन्नभेदस्य संबन्धघटकत्वोपगमात्तेन संबन्धेन प्रकृतनवमीपूर्वतिथीनां तत्तद्दशमीप्रागभावानधिकरणत्वात्पूजा विशेषस्य व्यापकत्वाक्षतेरिति देशरूपा च यथा काशीत आकौशिक्या व्रजतीत्यत्र कौशिक्यागमनसौमत्वं प्रतीयते तच काशीपूर्वकौशिकौपश्चिमदेशव्यापकगमनानधिकरणत्वं आशब्देन कौशिकानधिकरणकत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते तबाङ शब्दार्थः पश्चिमदेशस्तदन्वय्यवधिमत्त्वं पञ्चम्यर्थस्तव प्रकृत्यर्थस्य कोशिका अन्वयस्तावता कौशिकावधिकपश्चिमदेशलाभः तस्य खावधीभूतकोशिकात्तित्वविशिष्टव्यापकतासंबन्धेन गमनेऽन्वयः व्यापकत्वं च काशीपूर्वाभिन्नखनिष्ठाभावप्रतियोगितानवच्छेदकगमनविशेषत्ववत्त्वमिति । अभिविधिरपि कालरूपो देशरूपश्च कालरूपो यथा कार्तिकमारभ्याचैत्राच्छोतं भवति इत्यादौ देशहपो यथा काशीत आपाटलिपुत्वात् दृष्टो देव इत्यादी प्रथमे कातिकपूर्वकालोत्तरचैवोत्तरकालपूर्वकालव्यापकत्वं चैनोत्तरकालावृत्तित्वसहितं शीतभवने हितोये काशीपश्चिम देशपूषपाटलिपुत्रपूबदेशपश्चिमदेशव्यापकत्वं पाटलियुवपूर्वदेशात्तिनसहितं दृष्टावाशब्देन प्रत्याय्यते शेषः पर्वदिशाऽवसेय इत्याहुः । तच्चिन्त्यं मर्यादायां