________________
३७४
पञ्चमीविभक्तिविचारः। करणत्वविशिष्टस्याधिकरगाभेदस्य विशिष्टे समये वर्तमानत्वं तथा च हितौयादिक्षणामात्रवर्तिन्यतिप्रसङ्गवारणाय विशिष्ठस्येत्यन्तं भेदस्य विशेषणं आद्यक्षणष्टत्तिनि स्वस्मिपर्वत्ववोरणायाधिकरणाभेदस्य वैशिष्टय समयविशेषणं कालिकसंबन्धन वस्तुमा वानधिकरणे जीवादी वर्तमानस्य ज्ञानसुखादेघटादिपूर्वत्ववारणाय समय इति पदे तेन कालि कसंबन्धावच्छिन्नाधेयत्वं तथाविधानधिकर. शानिरूपितं पूर्वत्वं तच्च जीवादी कालिकेन वर्तमाने ज्ञानसुखादौ नातिप्रसक्तमिति अधिकरणत्वं ध्वसाधिकरणत्वं च कालिकेनैव बोध्यं तेन कपालादिस्वरूपाधिकरणावसाधिकरण कपालिकादिभिन्ने तन्तुसमुदाये वर्तमानस्य पटस्य न घटादिपूर्वत्वमिति विशेषणान्तर· प्रयोजनमप्यनया रौत्या बोध्यं तथाविधध्वंसानधिकर
णत्ववैशिष्ट्यमधिकरणभेदस्य विशेषणताघटित सामानाधिकरण्येन बोध्यमत: खोत्तरवर्तिनि नातिप्रसङ्गः । एवं पञ्चम्या निरूपितत्वमथः तच्च भेदप्रतियोगिन्यधिकरणे ध्वंसप्रतियोगिन्यधिकरणसमये चान्वेति तथा च शब्दनिरूपिताधिकरगासमयध्वंसान धिकरणे शब्दनिरूपिताधिकरणभिन्ने समये वर्तमानं गगनमित्यादिरन्वयबोधः । एवमेव माधवात्पूर्वो मधुः कृष्णात्पूर्वो हलायुध इत्यादाबप्यन्वयो बोध्यः । अञ्चत्तरपदयोगे यथा नगरात्याक अवाक प्रत्यगुदग् वा क्रीडापर्वत इत्यादी अवाप्युदयाचलादिसं निहित: प्रागादिशब्दार्थ: पूर्वोक्ततत्तत्सान्निध्यान्वयिपूर्वोक्तमवधिमत्त्वं पञ्चम्यर्थः ग्रामा त्यूर्व पाराम इत्यादाविवान्वयो बोध्यः। एवं माधवात्याक