________________
રૂ૭૨
पञ्चमीविभक्तिविचारः। त्यत्र भेदवान् प्रतीयते । आराद्योगे यथा यामादारात्तटाकः तटकादाराहनमित्यादौ आराच्छब्दो दूरसमीपयोर्वतते सामोप्यञ्च सामान्यतः संयुक्तसंयोगित्वं विशेषतः स्वल्येतरसंयोगघटितपरम्परासंबन्धवत्त्वमितरापेवं तदन्यत्सामान्यत: समीपान्यत्वं दूरत्वं बहुतरसंयोगघटितपरम्परावत्वं परम्पराघटकप्रथमसंयोगान्धविप्रतियोगित्वं तु पञ्चम्यर्थ: सामीप्यदूरत्वघटकचरमसंयोगयोस्तटाकवनादावन्वयः तथा च ग्रामप्रतियोगिताकसंयोगवद्देशसंयोगवांस्तटाकः तटाकप्रतियोगिताकसंयोगवद्देश संयुक्तबहतरदेशसंयोगपरम्पराघटकसंयोगवहनमित्यन्वयबोधः । वनादारादित्यत्र वनावधिकं परत्वमपरत्वं चार्थ इति गुरुचरणाः । दिकशब्दयोगे यथा ग्रामात्पूर्वो दक्षिणः पश्चिम उत्तरो वा राम इत्यादावनोदयाचलसंनिहित: पूर्वपदार्थः बडवानलसंनिहितो दक्षिणपदार्थ: अस्ताचलसंनिहित: पश्चिमपदार्थः कैलाससंनिहित उत्तरपदार्थः पदार्थैकदेशतत्तत्सांनिध्यान्वय्यवधित्वं पञ्चम्यर्थस्तच्च तत्तत्सांनिध्यखरूपपरम्पराघटकसंयोगान्वयिपरम्परान्तरघटकसंयोगसंख्यान्यूनसंख्यावत्वं तत्र प्रकृत्यर्थस्य स्वसंयोगघटितत्वसंबन्धेन परम्परान्तरे ऽन्वयः तथा च ग्रामसंयोगवटितोदयाचलपरम्पराघटकसंयोगन्यूनसंख्याकसंयोगघटितोदयाचलपरम्पराघटकसंयोगवान् राम इत्यन्वयवोधः । एवं बडवानलादिसान्निध्यमादायान्वयबोध ऊहनीयः । वस्तुतस्तु तत्सानिध्यं तु तत्संयोगघटितपरम्परान्तरघटकतत्संयोगघटित परम्पराघटकसंयोगवत्वं भवति हि