________________
विभक्त्यर्थनिर्णये 1
स्थ्यात् प्रकाशस्थाननुगमापत्तेश्च । तस्मात्प्रथमावय बावच्छेदेन लौकिकं चाचुषं प्रत्यक्षं वा प्रकाश: प्रथमत्वमवयवानां तु स्वारस्यारम्भकावयवाधिकरणसमयध्वंसानधिकरगा समयवतित्वमिदमेव मूलत्वं हैमवतश्च गङ्गावयवस्य स्वोत्पादकसमयवर्तितया तथाखं देशान्तरौयस्य तु हैमवताधिकरणसमयध्व' साधिकरसमयवर्तितया न तथात्वमिति । एवं वृचमूलस्यापि मध्यथाखाद्यपेचया प्रथमत्वमिति एवं हिमवतो गङ्गा प्रभवतीत्यत्र दर्शितः प्रभवत्यर्थः विषयत्वस्वरूपं कर्तृत्वं तिङर्थः पञ्चम्याः प्रकाशान्वधिकर्तृघटितसंबन्धावच्छिन्नमाधेयत्वमर्थस्तथा च हिमवतः प्रथमावयवावच्छिन्नस्य चाक्षुषस्य वा विषयो गगेच्यन्वयबोधः दर्शिते प्रभवत्यर्थे प्रथमत्वमवयव एव विवक्षितमतो हिमवतो गङ्गा प्रभवति काश्मोरेभ्यो वितस्ता प्रभवति प्रथमत उपलभ्यत इत्यर्थ इति काशिका अ प्रथमत्वस्य धात्वर्थविशेषणत्वे प्रथममिति स्यान्न तु तस्यन्तप्रयोगस्त सेरवच्छिन्नत्वमर्थः पृष्टतो गरुडध्वज इति दर्शनात् अवच्छिन्नत्वं तु प्रकृते स्वरूपसंबन्धविशेषः वि. षयित्वं वेत्यन्यदेतत् । अथ वा पञ्चम्या हेतुत्वमर्थः श्रत एव प्रभवत्यस्मादिति प्रभव इति काशिका । हैतुत्वं च दैशिकं बोध्यं प्रथमावयवाधीनस्य दर्शितप्रकाशम्य प्रयोजकता प्रथमावयवसत्ताप्रयोजकस्य हिमवत इति अत एव क्षेत्राच्छालिः वृक्षात्पुष्पं वा प्रभवतीति न प्रयोग: शालिपुष्पयोर्मलटन्तयोः प्रथमावयवयोः क्षेत्रवृक्षाभ्यामन्यत्रापि परंणानयने सति संयोगसम्भवात्
३६३
0