________________
विभक्त्यर्थनिर्णये ।
३५७
काशिका | श्रत्यन्तं पञ्चम्यर्थ सहितस्य धात्वर्थस्य प्रयोज्यान्तस्य विवरगां निलीयत इति व्यवहितादिदेशसंयोगस्य धात्वर्थस्य प्रधानस्य विवरणमिति । अधोडादियोगे पञ्चम ज्ञापयति । चाख्यातोपयोगे इति सूत्रम् । श्राख्याता वक्ता आख्याफले उपयोगे सति अपादानसंज्ञः स्यादित्यर्थकम् । आख्यानफलं तु शिष्यस्थोच्चारणमर्थज्ञानं वा श्रोतुस्तु पुण्यमधर्मध्वंसो वा उपाध्यायादधीत इत्यवाध्ययनं द्विविधमपि पूर्वोक्तं पञ्चम्या आख्यानं वाकामर्थस्तच्चाध्ययनफले उच्चारणे अर्थप्रतिपादकताज्ञाने वा प्रयोज्यतयाऽन्वेति उच्चारणफलकं थावणमर्थ प्रतिपादकता ज्ञानफलकं श्रावणं चेति द्विविधमध्ययनमधौङोऽर्थः उच्चारणं तु वर्णोत्पादकतयोपलक्षितो विकृतादिः प्रयत्न इति आख्याने तु प्रकृत्यर्थस्य कर्तृ तयाऽन्वयः एवमुपाध्यायक कवा का प्रयोज्यस्योच्चारणस्यार्थप्रतिपा दकताज्ञानस्य वाऽनुकूलं यच्छ्रावणं तदाश्रयत्वं वाक्याथेः । गरलाहडवानलाहा दाहवदान्यतां शिक्षत इत्यादौ यदि न हेतुटतोयाप्रयोगः तदा ऽऽख्यानज्ञापनं तच्च क्रियाकर्तव्यताज्ञानानुकूलव्यापारः पञ्चम्यर्थः प्रयोज्यतया शिक्षणादिफले प्रवृत्तावन्वेति शिक्षतेस्तु प्रवृत्तिफलकं परकट कक्रियाया दर्शनं ज्ञान सामान्यं बाऽर्थः वडानलादेस्तु दाहकर्ट त्वमेव दाहकर्तव्यताज्ञानप्रयोजकमिति नानुपपत्तिरिति पञ्चम्यर्थे तथाविधव्यापारे प्रकृत्यर्थस्यार्धयतयाऽन्वयः एवं पाचकात्याकं शिक्षते नटान्नाचं शिक्षते इत्यादी इत्थं च पक्तव्यमिति पाकाङ्गस्य चुल्लीप्रज्वालनादिकर्मणः: