SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 'विभक्त्यर्थनिर्णये । कर्मत्वे संवन्धप्रयोजकक्रियादिमश्वं तन्त्रमत: सान्निध्याभावस्वरूपम्य संबन्धाभावप्रयोजकस्य फलस्य प्रयोज्यस्य सत्वेऽपि वह्निकूपादेन कर्मत्वमिति माणवकादग्निं कूपमन्वाहा वारयतीति न प्रयोगः संबन्धप्रयोजकक्रियादेर्माणवकन्धे विद्यमानस्याग्नौ कूप च विरहादिति माणवकादेस्तष्थात्वात्कर्मत्वमेवेति । निलीयत्यादियोग पञ्चमौं ज्ञापयति । अन्नधौं येनादर्शनमिच्छति इति सूत्रम् । अन्तईि निमित्तं येनादर्शनमात्मनस्तत्कारकमपादानसंज्ञकं भवतीत्यर्थक मातुनिलीयते बाल इति प्रयोगः । अब स्वकर्मकदर्शनाभावप्रयोजको व्यापारो निलोयतेरर्थः पञ्चम्यास्तु दृत्तिमत्त्वप्रकारकेच्छाविषयत्वमर्थः स्वकर्मकादर्शनेऽन्वेति । प्रकृत्यर्थस्य निरूपकता वृत्तिमत्त्वेऽन्वयस्तथा च माटनिरूपित वृत्तिमत्त्वप्रकारकेच्छाविषयस्य स्वकर्मकदर्शनाभावस्यानुकूलो व्यापारी वाक्यार्थ: इष्यते हि बालेन माता मां मा द्राक्षौदिति मात्तित्वेन स्वकर्मकदर्शानाभावः अत एव मातुर्निलौयते बाल: माता पुनरेनं पश्यत्येवेत्यादयः प्रयोगा: सूप्येतदर्थमिच्छतिग्रहगा मिति शाब्दिकसंमत: पन्थाः । वस्तुतस्तु दशनाभावप्रयोजकव्यापारो नान्तर्धिस्तथासति सन्तर्धाबित्यस्य वैयापत्ते: कि च स्वकर्मकादर्शनेच्छया येन शत्रुचक्षु शितं तत्र सोऽर्थ 'शत्रोनिलीयत इति प्रयोगप्रसङ्गः तस्माच्चक्षुःसंयोगप्रतिबन्धकदेशसंयोगोऽन्तर्धिशब्दार्थ: स एव निलोयतेरर्थ: प्रतिबन्धकस्तु व्यवहितदेशसंयोगः अत एव व्यवधानमन्तहिरिति काशिका । यदि च तमसि निलीयत दूति
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy