________________
३२६
पञ्चमीविभक्तिविचारः । पेयते यदव परम्परासंबन्धस्य न संसर्गत्वं न वा प्रतियोगितावच्छेदकसंसर्गत्वमिति बाधकमुक्तं तदप्यकिंचिकरं सुरभि जलं लोहितः स्फटिक इत्यत्र समवायिसंयोगस्य संसर्गतायाः कर्परगन्धो न तडागजले किंतु कुम्भोदके मञ्जिष्ठारागो न मैत्रवस्त्रे किं तु चैत्रपट इत्यत्र प्रतियोगितावच्छेदकतायाः सर्वानुभवसिद्धत्वात्प्रकृतेऽपि विभागभेदयो: पञ्चम्यर्थयोः जनकत्वप्रतियोगितावच्छेदकत्वाभ्यां परम्पराभ्यां पतनादिक्रियायामन्वयात् न पत्त्रादित्यादौ परम्परायाः प्रतियोगितावच्छेदकसंसर्गतया निषेधप्रतीत्युपपत्तिः नविनिर्मुक्तवाक्ये , येन संबन्धेन यस्य यत्रान्वयः तत्र नमसमभिव्याहारे तसंबन्धावच्छिन्नप्रतियोगिताकस्तस्याभावस्तत्रान्वेतीतिव्युत्पत्त: न च सुरभि जलमित्यादिप्रत्यक्षादिबुद्धौ परस्यराया; संसर्गत्वेऽपि शाब्दे कापि संसर्गत्वाभावात् प्रकृतेऽपि न संसर्गत्वं न वा प्रतियोगितावच्छेदकसंसर्गत्वमिति वाच्यं पचतोत्यादौ विक्लिच्यादिफलकस्य जनकतया प्रयोजकतया वा फूत्कारादिव्यापारे तस्य प्रयोजकतया तिङर्थे प्रयत्नान्वयदर्शनात् एवं चैत्रेण न पच्यत इत्यादी तृतीयार्थप्रयत्नस्य प्रयोज्यतया संबन्धेनावच्छिन्नप्रतियोगिताकोऽभावः पाकावेतौति सर्वानुभवान्न हि जनकता जन्यवा प्रयोजकता प्रयोज्यता वा साक्षात्संबन्धः न च जनकत्वसतिरिक्तपदार्थस्तस्य साक्षात्संबन्धत्वमिति वाच्यं जनकत्वस्य तथात्वे तु जन्यत्वस्यापि तथात्वावशयकत्वात् प्रति जनकं जन्यं च जन्यत्वजनकत्वयोतिरिक्तयोरनन्तकल्पनाऽपेक्षया कार्याधिकरणहत्त्य