SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ३२१ वैमिदं बालोपलालनं न तु पञ्चम्यर्थविवेचनं क्रियादेरन्यलभ्यत्वात्तत्तत्क्रियादेरननुगमेन पञ्चम्यर्थ प्रवेशानुपपतेः तस्माद्वेदो विभागञ्च पञ्चम्यर्थस्तच प्रकृत्यर्थस्याधेयतया अन्वयः विभागस्य जनकतया भेदस्य प्रतियोगितावच्छेदकतया पतनादिक्रियायामन्वयः । तरोः प पततौत्यत्र तरुसमवेत विभागजनकस्य तरुवृत्तिभेदप्रतियोगितावच्छेदकस्य पतनस्याश्रयः पत्रमित्यन्वयबोधः । शाब्दिकैकदेशिनस्तु विभाग एव पञ्चम्यर्थो न तु भेदः न चैवं पत्रात्पवं पतनौतिप्रयोगप्रसङ्ग इति वाच्यं परया कर्तसंज्ञयाऽपादानसंज्ञाबाधात् पञ्चम्यनुपपत्तेः संज्ञाया एव विभक्तिनिष्पादकत्वादिति वदन्ति । तन्न एवं सति वृक्षात्पर्णं पतति न पत्रादित्यत्र निषेधप्रतीत्यनुपपत्तेः पतने पत्रसमवेतविभागजनकत्वाभावस्य नञा बोधनासम्भवादयोग्यत्वात् गुणान्न पततौत्यादाविव प्रकृत्यर्थ - समवेतत्वाभावस्य पञ्चम्यर्थं विभागे बोधनस्याप्यसम्भवात् विभागस्य पवसमवेततया अयोग्यत्वात् भेदस्य पचम्यर्थतावादे तु पaनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावस्य पतने नञा बोधनसम्भवान्निषेधप्रतोत्युपपत्तिः नन्वेवमपि पत्रसमवेतविभागजनकत्वस्य पवान्तरनिष्ठ - भेदप्रतियोगितावच्छेदकत्वस्य च द्वयोः पतने सत्त्वान्निषेधप्रतीत्यनुपपत्तिः पत्रात्पत्रं पततीतिप्रयोगप्रसङ्गश्च न च तत्तत्पवनिष्ठ भेदप्रतियोगितावच्छेदकत्वस्य समुदायो नञा निषिध्यत इति निषेधप्रतीत्युपपत्तिस्तथाविधसमुदाय एव पञ्चम्याः साधुत्वान्न दर्शितप्रयोगश्चेत्यादिपूर्वोक्तप्रायं सांप्रतमिति वाच्यं युगसहस्रेणापि ग्रहीतु ४१
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy