________________
विभक्त्यर्थनिर्णये ।
अथ पञ्चमी ।
ङसिभ्यांभ्यस इति त्रयः प्रत्ययास्तव सरसः समुपैति सुमनसः समधौत इत्यादौ श्रूयमाणत्वादसस्तत्वेन भ्यामित्यस्य भ्यांत्वेन भ्यसो भ्यस्त्वेन वाचकत्वं ङकार इकारश्चानुबन्धः क चिदप्यश्रूयमाणत्वान्न तौ वाचकताकुचिप्रविष्टाविति अनुशासन सिद्धाः पञ्चम्या अर्थाः । अनुशासनं च "अपादाने पञ्चमी” इति । तत्वापादानर्मपादानत्वं वाऽर्थ इति वच्यते । अत्राप्यनभिहिते हूत्यधिकारस्तेन चौरभौत इत्यत्र समासेन व्याघ्र इति बिभेतीत्यa निपातेनापादानाभिधाने न पञ्चमी । अपादानपद सङ्केतग्राहकं सूत्रं "ध्रुवमपायेऽ पादानम् " इति । धुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तब्कारकमपादानसंज्ञं भवतीत्यर्थकम् । अपायो विश्लेषः संबवापगम इति यावत् । विश्लेषस्य साध्यत्वं क्रियाजन्यत्वं तेन स्वतः सिद्धविश्लेषवतो ध्रुवस्य नापादानत्वमतो मेरोरयमायातीति न प्रयोगः तरोः पत्रं पततौत्यत्र विश्लेषस्य संयोगनाशस्य प्रयोजको विभागोपायस्तद्वत्त्वमपायित्वं क्रियानधिकरणत्वं धुवत्वं तत्र विभागी भेदश्च पञ्चम्यर्थः लाघवात्क्रियावदन्यो विभागवान्न पञ्चम्यर्थी गौरवान् विभागस्य जनकतया भेदस्य प्रतियोगितावच्छेदकतया क्रियायामन्वयः वृक्षस्य पतनक्रियावदन्यत्वाद्दिभागवत्वाच्चापादानत्वं क्रियावदन्यत्वं तु तत्क्रियावदन्यत्वं बोध्यं तेन कुड्यात्पततोऽखात्पततौत्यवाश्वस्य पतनक्रियावत्वेऽपि नरक कपतनक्रियापादानत्वस्य न हानिस्तदुक्तं हरिणा ।
३१९
·
-