________________
विभक्त्यर्थनिर्णये । टाय वा मन्ये इत्यादौ चतुर्थी चोपपद्यते । अत्र परम्परा मनन कर्मणः चतुर्थ्यर्थसादृश्यस्य नामार्थान्वयेऽपि जलं न पचतीत्यत्र नजान्वयिहितीयार्थकमत्वस्येव धातुसमभिव्याहारोव स्खविशेषगाकशाब्दबोधविषयत्वात् प्रागुक्त कारकलक्षणवत्त्वात् कारकत्वमिति ।
इति विभक्त्यर्थनिर्णये कारकचतुर्थीविवरणम् । नामार्थान्वयिन: चतुर्थ्यर्थाः अकारकतया संजायन्ते तत्र विधाने "तादथ्य उपसंख्यानमिति वात्तिकं चतु
यास्तादर्थ्यमर्थ ज्ञापयति तादयं च नानाविधं मोऽर्थो यस्येति तस्यार्थो यस्येति च विग्रहेण प्रतीयत नत्र सोऽर्थ इत्यनेन जनकत्वं तस्यार्थ इत्येनोपकारकत्वमपकारकत्वं च यथा यूपाय दारु कुण्डलाय हिरण्यमित्यादौ चतुर्थ्या जनकत्वमर्थः यूपस्य खण्डदारुणो नाशहारामहादारजन्यत्वात् भुग्नसंयोगवतः कुण्डलपदार्थस्य हिरण्यजन्यत्वं सविशेषणे होति न्यायेन भुग्नसंयोगमादाय पर्यवस्थति यूपजनक दारु कुण्डल जनक हिरण्यमित्यन्वयवोधः । एवं पटाय तन्तवो घटाय दण्डो रन्धनाय स्थालीत्यादावपि जनकत्वं चतुयर्थः । उपकारकत्वं विविध सुपचायकत्वं सुखजनकत्वं चाद्यं यथा अश्वाय यवघास: काननाय दृष्टिरित्यादावुपचायकत्वं चतुथ्यर्थः । हितोयं यथा ब्राह्मणाय दधि कामिने युवतिरित्यादौ सुखजनकत्वं चतुर्थ्यर्थः । अपकारकत्वं चतुर्विधमपचायकत्वमनुत्पादकत्वं नाशकत्वं दुःखजनकत्वं चैति तत्वाद्यं यथा दन्ति ने नवबन्धः जलाशयेभ्यः उष्णोपगम इत्यादावपचायकत्वं चतुयर्थः। द्वितीयं यथा