________________
१४
कारक सामान्यविचारः ।
रहात् षष्ठ्यर्थशेषेऽतिव्याप्तिः स्यादिति क्रियानिरूपकत्वापलचितत्वेन सम्बन्धी विवचितस्तेन तथोपलक्षितेन - रूपसम्बन्धेन षष्टार्थशेषस्य चेष्टान्वयविषयकशाब्दप्रकारत्वान्न तत्वातिव्याप्तिः । यदि च सप्तम्या विविधमाधेयत्वमर्थस्तदा तगड़लन्न पचतीत्यादाविव तण्डुलं नेत्यादौ तण्डल कर्मत्वस्य नञर्थान्वयविषयकशाव्दप्रकार कर्मत्वादावव्याप्तिरसम्भवो वा स्यात् तद्दारणाय निमक्तसम्वन्धावच्छिन्नत्वं स्वप्रकारताविशेषणां बोध्यम् । यदि च धातुविनाकृतात् तण्डुलं नेत्यादिवाक्यात्कर्मत्वादेर्नञर्थान्वयविषयकशाब्दबोधो नाभ्युपेयते नञर्थे कर्मत्वादेरन्वयबोधे नत्रो धातुसमभिव्याहारस्य तन्त्रस्वादिति । तदा निरुक्तसम्बन्धावच्छिन्नत्वं न स्वपकार ताविशेषणं तण्डुलं न पचतीत्यादी कर्मत्वस्य नत्रafaविषय कशाग्दप्रकारत्वेऽपि तादृशशाब्दस्य धा तुपद्व्यतिरेकम युक्तव्यतिरेक प्रतियोगित्वान्न तचाव्याप्तिरिति । एवं निरुक्तशाब्दसामान्यभ्य लचणत्वे श्रोतरि निरुक्तशाब्दसामान्यस्य समवायेन सत्वात्तवातिव्याप्तिः स्यादनिरूपकत्वमुक्तं निरूपकत्वं प्रकारत्वं बोध्यम् । तावतापि धात्वर्थतावच्छेदकादावतिव्याप्तिरिति सुवर्थत्वमुक्तं सुवर्थत्वं तु सुब्जन्योपस्थितिप्रकाdeasi बोध्यमिति । अयमुपपतिर्निरर्थकपदासमभिव्याहृतद्दितौयार्थ कर्म त्वप्रकारता निरूपित विशेष्यतासम्बन्धेन शाब्दं प्रति भावप्रत्ययान्य प्रत्यय प्रकृतिधातुजन्योपस्थितेर्विशेष्यतासम्बन्धेन हेतुत्वं तेन घटादिपदेन लक्षणया पाकोपस्थितो योग्यतासत्वेऽपि तण्डुल