SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ चतुर्थीविभक्तिविचारः। यस्तस्या उद्देश्यितया त्यागेऽन्वयः प्रीतौ प्रकृत्यर्थस्य समवतत्वेन तदबच्छिन्नावच्छेदकतानिरूपकतया वाऽन्वयः तथा च शिवसमवेतप्रीत्युद्देशियक: पशुनिष्ठस्वत्वध्वंसफलको मन्त्रकरणकस्त्यागो वाक्यार्थः यदि च शिवसमवेता प्रीतिरप्रसिद्धा तदा शिवस्य समवेतत्वसंसर्गावच्छिन्नस्त्रनिष्ठावच्छेदकतानिरूपक ज्ञानविषयत्वसंबन्धेन प्रोतावन्वय: शिवप्रीतिरिष्टसाधनमिति ज्ञानस्य प्रौतिनिष्ठविषयतायाः शिवनिष्ठावच्छेदकतानिरूपितत्वादिति एवं शिवनिष्ठावच्छेदकतानिरूपकज्ञानविषयप्रौत्युहेश्यकस्तथाविधस्त्यागी वाक्यार्थ इति । गत्यर्थकर्मणि वैकल्पिकों चतुर्थो ज्ञापयति “ गत्यर्थकर्मणि हितौयाचतुर्थी चेष्ठायामनध्वनि ” इति सूत्र गत्यर्थधातुयोगे तदर्थकर्मणि चेष्टायां तदर्थे सति अध्ववर्जिते द्वितीयाचतुथ्यौँ भवत इत्यर्थकम् अोदनं पचतीत्यत्र कर्मणि चतुर्थीवारणाय गत्यर्थग्रहणं अश्वेन गच्छतीत्यत्र करणे चतुर्थीवारणाय कर्मणीत्युक्तं मनसा हरि बजतीत्यत्र कर्मणि चतुर्थीवारणय चेष्टायामित्युक्तं चैष्टाऽत्र परिस्पन्दरूपा बोध्या तेन ग्रामाथ रथो गच्छतीत्यत्न न चतुर्थ्यनुपपत्तिः अत एव काशिकायां चेष्टाक्रियाणां परिस्पन्दनक्रियाणां कर्मणीत्युक्तम् । अध्वानं गच्छतीत्यव कर्मण्यध्वनि चतुर्थीवारणायानध्वनीत्युक्तम् । आस्थितप्रतिषेधश्चायं विजेयः प्रास्थितः संप्राप्त आक्रान्त उच्यत इति काशिका अत आक्रान्ते अध्वनि चतुर्थी निषिध्यते यदा तु पन्थानमाक्रान्तुमिच्छति तदा चतुर्थी भवत्येव यथा ऽयसत्पथात्पथेऽध्वने वा गच्छनौति । एवं
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy