SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २८० · चतुर्थीविभक्तिविचारः । 1 अभावे चाक्षुषविषयत्वाभावे वा फले विशेषणता संबन्धाafeन्नाधेयत्वस्वरूपं कर्मत्वमन्वेति जम्भारये कस्तिष्ठते इत्यत्र प्रकाशे ज्ञानस्वरूपे फले समवेतत्वस्वरूपं कर्मत्वमन्वेति शक्राय शपते इत्यत्रापकर्षप्रकारकप्रतिपतौ फले विशेष्यत्वं विशेष्यता संबन्धावच्छिन्नाधेयत्वं वा कर्मत्वमन्वेति इति कर्मसंज्ञापवादार्थं संप्रदानसंज्ञात्रिधानमिति वदन्ति । वस्तुतस्तु सूत्रे ज्ञौप्स्यमानगृहणात् ज्ञानेच्छा चतुर्थ्यर्थो ज्ञायते तत्र ज्ञानस्य धातुना लाभसतीच्छामा चतुर्थार्थः अन्यथा "संप्रदाने चतुर्थी" ति सूत्रानन्तरं शलाद्यहुङ्ख्याशपां कर्मणोत्येव मुनिः सूत्रये - त् ज्ञौप्स्यमानशब्दवैयर्थं च स्यात् किं च कर्मसंज्ञापवादाभ्युपगमे अपन्हुवानस्य जनाय यन्निनामधौरतामस्य कृतं स्मरेण यदौ"त्यादौ कर्मप्रत्ययद्दितीयादेरनुपपत्तिप्रसङ्गः देवदत्ताय श्लाघत इत्यादौ देवदत्तादेः श्लाघतिकर्मत्वेऽपि निरवकाशया संप्रदानसंज्ञया कर्मसंज्ञाबाधात् जीप्स्यमानभेदस्य द्वितीयार्थस्यानन्वयात् वा श्लाघतियोगे न द्वितौयादिकर्मप्रत्ययः किं तु ज्ञौप्स्यमानार्थिका चतुर्थी तत्रेच्छा चतुर्थार्थः श्रत एव देवदत्ताय श्लाघते देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञापयितुमिच्छतीत्यर्थं इति काशिका । तचेच्छायां उत्कर्षपकारकज्ञानरूपफलस्योद्देश्यतया देवदत्तादेः प्रकृत्यर्थ 4 स्य समवेतत्वसंसर्गावच्छिन्नायास्तादृशज्ञानरूपफलनिष्ठोद्देश्यतावच्छेदकतायाः प्रतियोगित्वेन संबन्धेन तादृशज्ञाननिष्ठविशेष्यितानिष्ठोद्देश्यतावच्छेदकतानिरूपितावच्छेदकतायाः प्रतियोगित्वेन संबन्धेन चा -
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy