________________
२६४ तृतीयाविभक्तिविचारः। स्ततीया भवति चकारात्षधपीत्यर्थकम् । तृतीयाषष्ठयोहेतुत्वमेवार्थ: हयौ विभक्तिर्यथा केन हेतुना वसति कस्य हेतोर्वसति अत्र किमः जिज्ञासाप्रकारत्योपलक्षितधर्मवानर्थ: जिज्ञासा तु अवगतधर्मावान्तरधर्मप्रकारकज्ञानेच्छा बोध्या येन हेतुना यस्य हेतो; वसति नदस्यातिरमणीयमध्ययनं अब यच्छब्दस्य ममभिव्याहृतधर्मावान्तरधर्मवानर्थः समभिव्याहृतो धर्मः हेतुत्वं तदवान्तरो धर्मः अध्ययनं अत एव तच्छन्दस्याध्ययनसामानाधिकरण्यं येन वमतोत्यादौ समभिव्याहृतो धातुरेव समभिव्याहारः सुबन्ततिङन्तपदे बोध्यः धात्वर्थे हतीयार्थी हेतुत्वं विशेषणतया धर्म एवेति नानुपपत्तिः यदधीते तेन हेतुना तश्य हेतोर्वा वसति अनाधौतेस्तेन हेतुना तस्य हेतोर्वा वसति वेत्यादौ तच्छब्दस्य यच्छब्दार्थान्वितपदान्तरार्थतावच्छेदकत्वोपलक्षितधर्मवानर्थः पूर्वबुद्धिप्रकारत्वोपलक्षितधर्मवान्वाऽर्थः एवं हेतुशब्दार्थस्य सर्वनामार्थे तस्य तृतीया षष्टा वा हेतुत्वे तस्य धात्वर्थेऽन्वयः पूर्वोत्तरीत्या बोध्यः । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमिति वात्तिकम् । निमित्तादिशब्दप्रयोगे सर्वनाम्नः सर्वा विभक्तयो भवन्तीत्यर्थ कं तेन किं निमित्तं केन निमित्त न कम्मै निमित्ताय कम्य निमित्तस्य कस्मिन् निमित्त वा वसतीत्यत्र विभक्तीनां हैतुत्वमर्थोऽन्वयः पूर्ववत् एवं कारणादिशब्दप्रयोगे बोधा कारणापादानं पर्यायग्रहणाथें तेन किं प्रयोजनं केन प्रयोजनेन वा वसतीत्यादि बोध्यम् । अर्थान्तरे ततीयां ज्ञापयति । "प्रसितोत्सुकाभ्यां तृतीया च"इति