________________
तृतीयाविभक्तिविचारः। द्वितीयाया विशेष्यत्वं तत्संबन्धावच्छिन्नमाधेयत्वं वाऽर्थः शास्रष्टत्यर्थवत्त्वप्रकारकजानानुकूलशाब्दाश्रयत्वं वाक्यार्थः बेदमधीते जैमिनिरित्य व द्विविधाध्ययनं धात्वर्थः वेदकर्मकाध्ययनाश्रयो जैमिनिरिति वाक्यार्थबोध: एवं द्विविधोध्ययने श्रावणान्वय्याख्यानमुपयोगः पञ्चम्यर्थ इति ज्ञापयति "श्राख्यातोपयोगे” इति सूत्रमित्यादिकं वक्ष्यते । व्यामाद्वेदमधीत इत्य व पञ्चम्यर्थो वाक्य व्यासविशेषितं श्रावणेऽन्वेति सहाधीत इत्यत्र ममानगुरुकत्वमपि सहाथ: तच्च सजातीयवाक्यविषयकत्वं साजात्यं च पुरुषप्रयोज्यतावच्छेदिकया कत्वादिव्याप्यजात्या वोध्यं तेन गुरुभेदेनैककाले एकवेदाध्ययने तथा न प्रयोगः एवं प्रदर्शितस्थले वैशम्पायनकत ताकस्य वेदविषय कविताद्यनुकूलस्य वेदविषयकार्यवत्वप्रकारकज्ञानानुकूलस्य वा श्रावगास्य समानकालिकं विषयसजातीयवाक्यविषयकं च यद् वेदविषयकविटताद्यनुकूलं वेदविषय कार्थवत्त्वप्रकारकत्तानानुकूलं वा श्रावणं तदाश्रयो जैमिनिरित्यन्वयबोधः । “आहारो हि मनुष्याणां जन्मना सह जायते" इत्यत्र कत घटितं सामानाधिकरगयं सहार्थः क्रिययोरन्वेति गर्भाशयविभागस्तदनुकूलव्यापारी वा जन्मशब्दार्थ: पार्थिवद्रव्यप्रतियोगिककण्ठसंयोगस्तदनुकूलव्यापारो बाऽऽहारशब्दार्थ: जन्माहारयोः कारकशरीरवर्तित्वाद्भवतिक्रिययोः सामानाधिकरण्यं तथा च जन्मकर्तृताकोत्यत्तिसमानाधिकरणोत्पत्त्याश्रय आहार इत्यन्वयबोधः जनिधातोरुत्पत्तिरर्थ इति न चात्र समान कालिकत्वं सहाथ इति वाच्यम् । अनन्वया