________________
२३१
विभक्त्यर्थनिर्णये। मह पचतीत्यत्रापि समानदेशत्वं समान कालिकत्वं च सहाथ लेन देशकालयोर्वेषग्ये न तथाप्रयोगः । सूपेन सहोदनं पुत्रेण सह पचति पितेत्यत्र द्वेधा सहार्थान्वयस्तेन पुत्रकत कसूपकमताकपाकसमानदेशकालिकोदनकमताकपाकसमानदेश कालिकसूपकर्मताकपाकममानदेशकालिकोदनकर्म नाकाककृतिमान् पितेत्यावयवीधः । ननु “प्रासोष्ट शत्रुघ्नसुदारचेष्टमेंका सुमित्रा सहल मगो ने”त्यत्र लक्ष्मणप्रसवसमानकालिकत्वं शत्रुघ्नप्रसवे बाधितमिति कथं सहावयः न चात्र स्थलकालप्रथमजातो लक्ष्मणादिरेव ग्राह्य इति न समानकालिकोत्वान्वयानुपपत्तिरिति वाच्यम् । तथासति “प्रासोष्ट बीभत्समुदारचेष्टमेका पृथा वायुसुतेन साकमि"त्या दिनयोगप्रसङ्गात् । प्रथमजातभौमादिस्वरूपकालमादाय समानकालिकत्वान्वयसम्भवादिति चेत् प्रकारान्तरेणान समान कालिकत्वसम्भवस्तथा हि सूतिमारुतोऽत्र कालो बोध्यः एक एव सूतिमारुतोऽयमजप्रसबहेतुः सूतिमारुतस्य प्रसवप्रयोजकत्वमुक्तं याज्ञवल्क्येन ।।
नवमे दशमे मासि प्रवलैः सूतिमारुतैः । निस्वायते बोगा इव यन्वच्छिद्रेण स ज्वरः ॥ इति न च बहुवचनेन भूयसां सूतिमारूतानां प्रसव प्रयोजकत्वमुक्तं कथमेकसूतिमारुतः कालत्वेनोपादीयत इति वाच्यम् । एककालवर्तितया हि मारुतानामेकत्वमिष्यते य एव सूतिमारुता लक्ष्मणप्रसवे त एव श. त्रुघ्नप्रसवे प्रयोजका न तु भिन्नाः कल्पनागौरवात् लक्ष्मणनिगमकाले लक्ष्मणस्य प्रतिबन्धकतया न शवघ्न