________________
विभक्त्यर्थनिर्णये।
રર૭ कट त्वमवमीयते गणक्रियाकारकानभिधाने प्रधानकारकस्य प्रत्ययाभिहितस्य गुणक्रियायामन्ययात् । तदुक्तम् ।
प्रधानेतरयोयंत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिशृणाश्रया तत्त्र प्रधानमनुरुध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते।
गुणे यदा तदा तहदनुक्ताऽपि प्रतीयते ॥ इति हिरण्येन सह गां लभत इत्यादी गोलब्ध कतकत्वं हिरण्यलाभे प्रतीयते अतो न चैवेगा हिरगये मैत्रेण गवि लण्यमानायां हिरण्येन सह गां लभते मैत्र इति प्रयोगः अत एव समानकत कत्वादिकं सहार्थ इति निरस्तम् । दर्शितरोत्याऽतिप्रसङ्गनिरासात् समानकतुकत्वादौ च शक्त्यन्तरकल्पनाया अन्याय्यत्वाच्च प. ल्या सह यजत इत्यत्र पतिपदस्याध्याहारे पनौसाहित्यं पत्युविशेषणं यदि च नाध्याहारस्तदाऽपि साहित्यद्वारकं कतत्वं पत्न्या मन्तव्यं पत्नीसाहित्यस्य शौचनदधिकारत्वात् यत्कर्त्तव्यं तदनया सहेत्यभिधानात् । अत्रापि पत्येत्यध्याहारः । यदि च माध्याहारस्तदोऽपि कर्तव्यत्वे कृतिविषयत्वे धात्वर्थकृतौ साहित्यद्वारकं कतत्वं पत्न्या इति एवमन्वयबोधोपपादनेऽपि पत्यैत्यध्याहारं विना मुख्यकर्तव्यताकाङ्क्षाया अनिवत्तिः । भाट्टानां मते कतत्वादिकमखण्डमतिरिक्तमिति पत्न्या अपि कतत्वं निराबाधमिति । के चित्तु पुत्रेण सहागत आगच्छति वेत्यादौ आगमनसमानकालिकागमन कर्ततासंवन्धेन विशिष्टस्तथाविधागमनं च सहशब्दस्यार्थ: विशिष्टस्य तादात्म्येन तथा विधागमनस्य कततया संब