SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ तृतीयाविभक्तिविचारः । माणुसंख्यायाश्च परम्परा संबन्धस्य तैजसावयविन्यपि सभवात् तत्र द्रोणादिव्यवहारप्रसङ्गात् न च धान्यादौ तुलितत्वस्यैवात्र व्यञ्जकस्याभावान्न द्रोणादिव्यवहार इति वाच्यम् । क्षेत्रादिपूरणस्य धान्यादाविवात्रापि व्यझुकस्य सम्भवात् तस्मात्तथाविधगुरुत्वानि द्रोणपदस्यार्थः यद्दशाद् द्रोणो ब्रौहि: द्रोणः पाषाण इत्युभयप्रतौतेरेकविषयत्वं तैर्गुरुत्वैर्दशितपरम्परया विशिष्टो निरूढलक्षणः यद्दशात् द्रोगा माषं भुङ्क्ते भोम इति प्रयोगः न च तैर्गुरुत्वैः संसृष्टषु धान्येषु विशकलितेष्वपि द्रोणादिव्यवहारप्रसङ्ग इति वाच्यम् । व्यञ्जकाभावादप्रससङ्गाद् व्यञ्जकसत्वे त्विष्टत्वाद् श्रत एव द्रोणः काश्यां हिद्रोगाः प्रयागेऽयोध्यायां चेति पञ्चद्रोणो मम ब्रौहिरिति प्रतीतिव्यवहारौ एवं तृतीयार्थोऽन्यव्यवच्छेदः श्रन्यस्य विद्रोणव्याप्य गुरुत्वत्वावच्छिन्नप्रतियोगिता संसर्गेण व्यवच्छेदेऽत्यन्तभावे ऽन्वयः व्यवच्छेदस्य धान्येऽन्वयः एवकारस्थल इव व्यवच्छेदान्वयिनि धान्ये विद्रोणस्याप्यन्वयः तत्रान्यव्यवच्छेद इव संबन्धोऽपि तृतौयार्थः विद्रो 13 विशेषितस्य संबन्धस्य धान्येऽन्वयात् हिद्रोणस्थान्वयोवोष्य इति श्रतः पञ्चद्रोणेन क्रौयमाणे धान्ये हिद्रोणेन धान्यं क्रोणातीति न प्रयोगः न वा द्रोणेन क्रीयमाणे हिटोन क्रौणातौति प्रयोगः क्रौणातेस्तु फलतया प्रतिग्रहः व्यापारतया दानं चार्थः विक्रौणातेरपि फलव्यापारयोर्वैपरीत्येन तदुभयमर्थः प्रतिग्रहः सत्वेच्छा दानं स्वत्वस्वत्वनाशोभयेच्छा फलस्य स्वत्वेच्छायाः प्रयोज्यतया दाने फलस्य दानस्य प्रयोजकतया संबन्धेन २१८ "
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy