________________
२०८
तृतीयाविभक्तिविचारः। नसाधारणो धर्मः भवति च सतो जातिः प्रकतिरियादी जात्यादिस्तथा असाधारण्यविशेषणात् घटस्य गुणो जातिर्वा प्रकतिरिति न प्रयोगः प्रयोगस्तु कम्बुपौवादिमत्वं प्रकृतिरिति । जलस्स शैत्यं पृथिव्या गन्धतेजस औष्ण्यं प्रकृतिरित्यादौ शैत्यगन्धौष्ण्यानां संग्रहाय स्थूलकालावच्छिन्नत्वं स्वाश्रयनिष्ठात्यन्ताभावे विगेषणं देयमिति । यदि च संयोगो द्रव्यस्य मत्सरः खलस्य चैतन्यमात्मनः प्रकृतिरित्यादिप्रयोगस्तदा देशानवच्छिन्नविशेषणतया स्वाश्रये स्थूलकालावच्छेदेन वर्तमानस्यात्यन्ताभावस्य प्रतियोगितानवच्छेदकधर्मवानसाधारणो धर्मः प्रकतिरिति ट्रव्ये वृक्षादौ मूलाधवच्छेदेन संयोगस्य खले मत्सरस्य आत्मनि ज्ञानस्य घटाद्यवच्छेदेन स्थूलकालावच्छेदेन वर्तमानोऽप्य त्यन्ताभावो न देशानवच्छिन्नविशेषणतयाऽस्तौति नासंग्रहः । वस्तुतस्तु भूयःकालिकस्वाश्रयनिरूप्यसत्तावांस्तादृशो धर्म: प्रकतिस्तावतैव सर्वसामञ्जस्यात् यदि च पृथिवत्रा गन्धप्रागमावो रक्तप्रागभावो वा गन्धनाशो रक्तनाशो वा प्रकतिरिति न प्रयोगस्तदा स्वसंवन्धिनि प्रतियोगिजातीयासमानकालिकस्य विद्यमानस्य नाशस्य प्रागभावस्य चाप्रतियोगी तादृशो धर्मः प्रकृतिरिति तथाविधनाशप्रागभावप्रतियोगिनौ प्रागभावनाशौ न तथास योगमसरतानानां नाशप्रागभावे स्वसंवन्धिनि विद्यमानौ न प्रतियोगिजातीयासमानकालिकाविति न तेषामसंग्रहः । यहा स्वसंबन्धितावच्छेदकसमनियतो धर्मः प्रकृतिः समनियमघटकवाापकत्वये प्रतियोगिवैयधिक