________________
सरस्वती पुस्तङ्गलार તનપોળ વાખાના
सास feल्हास
विभक्तयर्थनिर्णयः ।
चन्द्रसा
क्रमांक
170
नशील
ε
श्रीगणेशाय नमः।-?
मा
बहुविधरूपपरिग्रह जगद भिनाटन महाकाङ्क्षन् । स्वयमपि नटति सुकुतुको यस्तस्मै शंभवेऽस्तु नमः ॥ १ ॥ ध्रुवोऽपाये कर्मेतिफलहितः साधकतमः सदाधारोऽभीष्टः परफलकभावेन जगताम् ॥ स्वतन्त्रः कर्तासि स्फुटवलयशेषः प्रथमया सुलिङ्गख्यातस्त्वं विशदय विभक्तौ गिरिश ताः ||२||
इह खलु सर्वेषां विभक्त्यर्थानां भगवत्यन्वय इति विभक्त्यर्थो निरूप्यते । तत्र कारकाकारकभेदात्स द्वेवा । ननु कारकत्वस्यानुगतत्वाभावेन न तेन रूपेण विभ क्त्यर्थता कारकाणां प्रातिखिकरूपेण तदर्थत्वे द्वेधा विभागो ऽनुपपन्नः । न च क्रियान्वयित्वरूपं कारकत्व' नाननुगतमिति वाच्यम् । कुमार्य इव कान्तस्य त्रस्यन्ति स्टहयन्ति चेत्यादौ षष्यर्थ शेषस्यापि क्रियान्वयित्वात्तत्वातिव्याप्तेः । न च षष्ट्यर्थभिन्नत्वमपि विशेषणमिति वाच्यम् । तथा सति तण्डुलस्य पाक इत्यादी षष्यर्थस्याकारकत्वापत्तेः । अथ कर्तृकर्मणोः कृतीति सूत्रविहितषष्ठ्याः कारकार्थकत्वेन तण्डुलस्य पाक इत्यादौ षट्यर्थस्य कार
पं. श्री चंद्रसागरजी गणिवर ।
.