________________
द्वितीयाविभक्तिविचारः ।
आत्मनेपदममभिव्याहारे ज्ञाप्यते तत्राभिवादेरात्मनेपदित्वाद दृश: परमैपदित्वे तु न विकल्पः किं तु दृश: कतर कर्मत्वमेव अभिवादयते विश्वामित्रं रामेण रामं -- वा दशरथ इत्यादावभिवादेर्नमस्कारोऽर्थः स चोत्कर्षवतथा ज्ञापन खरूपस्तवोत्कर्षप्रकारकज्ञानं व्यापारश्च ख
शोऽर्थः तवाभिवाद्यविश्वामित्रादिविशेषितमाधेयत्व
१७०
मुत्कर्षविशिष्टसमायावच्छिन्नाधेयत्वीय स्वरूपसं सर्गे गा ज्ञानेऽन्वेति ज्ञानं तु प्रयोजकतया व्यापारे त्वत्तोऽहमपकृष्ट इति वाक्यादिस्वरूपेऽन्वेति उत्कर्षस्तु व्यापाराथयाभिवादकावधिको वोध्यः रामपदोत्तरतृतीयाद्वितीययोर्व्यापारान्वयिनो कृतिरर्थः व्यापारस्तु प्रयोजकतया जिथें दशरथ व्यापारेऽन्वेति द्वितीयार्थाधेयत्वस्य दर्शितसंसर्गेण ज्ञानेऽन्वयोपगमात् अभिवाद्यान्यस्याभिवाद्यगतोत्कर्षज्ञानेऽपि तमभिवादयते इति न प्रयोग: यदि चो
प्रकारकज्ञानं नमोऽपि धात्वर्थस्तदा उत्कर्षप्रकारतानिरूपित विशेष्यतया समवायेन च द्वाभ्यां संबन्धाभ्यामवच्छिन्नमाधेयत्वमभिवाद्यवाचिपदोत्तरद्वितीयाया - र्थ इति न काऽप्यनुपपत्तिः । यदि चाभित्राद्यस्य व्यासङ्गवशादुत्कर्षाज्ञानेऽपि अभिवादिप्रयोगस्तदा उत्कर्षवत्ताजिज्ञापयिषा धात्वर्थः फलं व्यापारस्तु पूर्वोक्त एव तत्रीत्कर्ष प्रकारकज्ञाननिष्ठोद्देश्यतावच्छेदको भूतयोरुत्कर्षप्रकारता निरूपित विशेष्यता कत्वसमवेतत्त्वयोर्वर्तमानाग्यामवच्छेदकत्वाभ्यां निरूपितयाऽवच्छेदकतया सब-वेनावच्छिन्नमाधेयत्वमभिवाद्यवाचिपदोत्तरद्दितीयाया
अर्थ: उत्कर्षनिज्ञापयिषायां फलीभूतायामन्वेति । सा
1