________________
२४
द्वितीयाविभाक्तविचारः । कालवावान्तरधर्मवान् माससम्बत्सरादिः न त सामान्यतः कालः तेन मासं सम्बत्सरं वाऽऽस्ते इति प्रयोगः न तु कालमास्ते इति प्रयोगः । भावो गोदोहादिः तेन गोदोहं तिष्ठतौति प्रयोगः । यद्यपि गोदोहादिशब्दस्य कालार्थकतया कालग्रहणोनैव दर्शितप्रयोग सिद्धेः भावग्रहणमनर्थकं तथापि घञन्तेन प्रतिपाद्यमानोऽपि कालः कर्म भवतीति प्रपञ्चार्थमेव भावग्रहणम् । गन्तव्योऽध्वा ऽध्वत्वावान्तरधर्मवान् क्रोशयोजनादि न तु सामान्यतोऽध्या सामान्यव्यवच्छेदार्थ गन्तव्यपदं तेन क्रोशं योजनं वा रमते सांयात्रिक इति प्रयोगः न तु अध्वानं रमत इति प्रयोगः । न च "कालाध्वनोरत्यन्तसंयोगे" हितोयाइत्यनुशासनेनैव मासमास्ते कोशं रमते इत्यादिप्रयोगोपपत्तेः प्रकृतवात्तिके कालाध्वग्रहणमनर्थकमिति वाच्यं प्रकृतवार्त्तिकैन कर्मसंज्ञानापनेन कर्माख्यातप्रयोगोपपादनात् तेन कुरव: सुष्यन्ते माम अास्यते क्रोशो रम्यते गोदोहः स्थीयते इत्यादि प्रयोग: अव कुरूने खपिति क्रोशं रमत इत्यादौ दैशिकेन कर्ट घटितपरम्परया साक्षादा संसर्गेणावच्छिन्नमाधेयत्वं हितीयार्थः स च खापादिप्रधानीभूतधात्वर्थान्वयौ एवं मासमास्ते गोदोहं तिष्ठतीत्यादौ कालिकसम्बन्धावच्छिन्नमाधैयत्व हितीयाथ: सोऽपि प्रधानोभूतासनादिधात्वर्थान्वयौ एवं कुरवः सुष्यन्ते क्रोशो रग्यते इत्यादौ दैशिकतादृशसं मर्गावच्छिन्नमधिकरणत्वं कर्माख्यातार्थः एवं मास आस्थत गोदोहः स्थीयते इत्यादौ कालिकतादृशसंसर्गावछिन्नमधिकरणत्वं कर्माख्यातार्थः । एवं कुरून् स्वपि