SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ द्वितीयाविभक्तिविचारः । ज्ञापकादेवमवधार्यते ज्ञापकं तु " तथा युक्तं चानीप्सितमिति सूत्रं तथा ईप्सिततमवद् युक्तं धात्वर्थ: फलेनेति शेषः यद्दा तथा धात्वर्थफलेन युक्तमित्यर्थवोऽप्यर्थः ईदृशमनीप्सितमपि कर्मसंज्ञकमित्यर्थकम् । अनीप्सितं द्वेधा ईप्साया अविषयो द्वेषस्य विषयश्च । श्रादां यथा ग्रामं गच्छंस्तयां स्पृशतोत्यव तृणमप्साया विषयः द्वितीयं यथा रथ्या गच्छंश्चाण्डालं स्पृशतीत्यव स्पर्शवत्तया द्वेषस्य विषयश्चाण्डालः इत्थं चाप्यर्थकेन चकारेणेप्सिततमानीप्सितयोविवक्षणात्तथा युक्तं कर्मेति ज्ञाप्यते इति धात्वर्थफलवत्वं सूत्रादेवावधारितमिति । गां दोग्धि दुग्धमित्यादौ गवादेः कर्मत्वोपपत्तये "अकथितं च" इत्यनुशासनं अपादानादिभिरकथितं कारकं कर्मसंज्ञ भवतीत्यर्थकम् । अब केचित् दुहेः स्यन्दनं तदनुकूलो व्यापारश्चार्थः स्यन्दनत्वं द्रवत्वजन्यतावच्छेदिका चौरादिक्रियावृत्तिर्जातिः गोपदोत्तरद्वितीयाया विभागोऽर्थः दुग्धपदोत्तर द्वितीयाया आधेयत्वमर्थः हितौयार्थविभागस्यानुकूलतया स्यन्दनेऽस्य तथैव व्यापारेऽन्वयः एवं गोविभागानुकूल दुग्धवृत्तिस्यन्दनानुकूलव्यापारानुकूलकृतिमान्गोपाल इत्याकारको गां दोग्धि दुग्धं गोपाल इत्यत्र शाब्दबोधः न च विभागः पञ्चम्यर्थत्वादपादानत्वमेव तद्दिवचायामपादानाद्यकथनासम्भवात् कर्मत्वानुपपत्त्या द्वितीयाऽनुपपत्तिरिति वाच्यम् । प्रधानीभूतधात्वर्वान्वयिनो विभागस्यापादानत्वरूपत्वाव वृक्षात्पर्ण पततोत्यादौ प्रधाने स्पन्दे पतत्यर्थे पञ्चविभागस्यान्वयात् प्रकृते स्यन्दनानुकूलव्यापार वि १३८
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy