SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०६ द्वितीयाविभक्तिविचारः। ह्यादौनां कर्मत्वं संस्कारद्वारा वहननकरणकभावनाफलोत्पत्तावन्वयः एवमवहननेन ब्रीहीन भावयेदित्यर्थः । न चैवं मक्तून् जुहोतीत्यादौ सक्तनां सिद्धत्वाद्भूतभाव्युपयोगविरहेण संस्कार्यत्वाभावाच्च कर्मत्वविरहात्मनुपदाद्वितीयाऽनुपपत्तिरिति वाच्यम् । करणार्थकतया हितोयोपपत्तेः । होमस्य भाव्यतया सक्तकरणकत्वस्य भावनायामन्वयात् । एवं सक्तुभिौमं भावयेदित्यर्थः । होमस्य भाव्यत्वं फलान्तरसाधनतया पचतीत्यादी पाकस्येव । तदुक्तं भषादैः । भूतभाव्युपयोगं हि संस्कार्य द्रव्यमिष्यते । सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित् ॥ प्राधान्यमेव तत्रापि हितीया वदति खतः । " विरोधात्तेन सम्बन्धी गुणाभावस्तु लच्यते ॥ अस्थार्थः । भूतोपयोगस्य संस्कार्यतया भाव्यत्वं यथा वहिर्जु होतीत्यादौ परिस्तरणोपयुक्तानां वहिषां संस्कायंतयों भाव्यत्वम् एवं होमेन बहिर्भावयेदित्यर्थः । भाव्युपयोगस्य संस्कार्यतया भाव्यत्वं यथा बौहीनवहन्तीत्यादी भाविपुरोडाशाहुपयोगवतां ब्रोहीणां संस्कार्यतया भाव्यत्वमित्युक्त सक्तूंना तु भूतभाव्युपयोगविरहात्संस्कार्यतया भाव्यत्वं न सम्भवति तथाभाव्यत्त्वमङ्गानामेव मवति तथाभाव्यत्वविरहेऽङ्गत्त्वविरहात्मक्तूनां प्राधान्य प्रधानतया भाव्यत्वं हितोया बदति तच्च न सम्भवति स्वतो विरोधासिद्धानां सक्तूनां भाव्यत्वविरोधात्तेन सन्धी करणादिलक्ष्यते स गुणाभावः भूतभाव्युपयोगन्य इत्यर्थः । एवमग्निहोत्रं जुहुयात्वर्गकाम इत्यादौ
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy