________________
द्वितीयाविभक्तिविचारः । गम्यर्थफलसंयोगान्वितं तिर्थाधिकरणत्वं दर्शितसंसर्गेण ग्रामे निराबाधमिति तस्य ग्रामेऽन्वयो भवति तस्य तु दर्शितसंसर्गावच्छिन्नप्रतियोगिताकोऽभावः स्वात्मनि मनुष्ये च निराबाध एव स्वात्मनि दर्शितसंसर्गेण मनुध्यान्तरे स्वरूपसंबन्धेनापि चैत्रकर्तकव्यापारजन्यसंयोगाधिकरगावस्थासत्वादिति निषेधप्रतीत्युपपत्तिरिति । एतेन तिल जुहोति न तु वन्हिमित्यादी भेदस्य हितीयार्थलाभ्यपगमेऽपि निषेधप्रतीत्यनुपपत्ति: वन्हिसंयोगफलकविहितव्यापारार्थकस्य जुहोतेः फले वन्हिसंयोगे वन्हिसमवेतत्वस्य वन्ही व्यापारवडेस्य च सत्वात् न च वन्ही जुहोतिकर्मत्वमिष्टमेवात एव “यथाविधिहुताग्नौनामि"स्यत्र हुतशब्दार्थस्य हवनकर्मणस्तादात्म्यमग्नौ प्रतीयते एवं"जटाधरस्मन् जुहुधीह पावकमि त्यत्र हितौयान्तार्थस्य वन्हिकर्मत्वस्य जुहोत्यर्थेऽन्वय इति वन्हिकर्मस्वस्य निषेधो हवनेऽयोग्यतया न प्रत्येतुं योग्य इति वाच्यम् । हुताग्नौनामित्यत्र पावकं जुधौत्यत्र च संयोगफल कस्वाहाकरण क प्रक्षेपार्थकतया जुहोतेः कर्मप्रत्ययनिहितीयोपपत्तेः । न च जुहोतेः संयोग एव फलं न तु वन्हिसंयोग इति वाच्यम् । तथासति वन्हि हतं जुहोतीति प्रयोगापत्तेः एवं पार्थिवद्रव्यप्रतियोगिककगठसंयोगफल कव्या पारार्थकस्य भुजोंगे इव द्रव्यप्रतियोगिककण्ठसंयोगफल कव्यापारार्थकस्य पिबोंगे श्रीदनं भुते न तु कण्ठं पयः पिबत्ति न तु कण्टमित्यत्रापि निषेधप्रतीत्यनुपपत्तिः भुजिपिबतिफलयोापारवह्वेदस्य च कण्ठे मुत्वात् । एवं प्राणवियोगफलकव्यापारा