________________
२४०
न्याय-दीपिका
'त्रिधा हि शास्त्राणां प्रवृत्तिः–उद्देशः, लक्षणम्, परीक्षा चेति । तत्र नाममात्रेणार्थानामभिधानमुद्देश: । उद्दिष्टस्य स्वरूपव्यवस्थापको धर्मो लक्षिणम् । उद्दिष्टस्य लक्षितस्य च 'यथावल्लक्षणमुपपद्यते न वा' इति प्रमाणतोऽर्थावधारणं परीक्षा'-न्यायकुमुद० पृ० २१ ।
'त्रयी हि शास्त्रस्य प्रवत्तिः–उद्देशो लक्षणं परीक्षा च । तत्र नामधेयमात्रकीर्तनमुद्दे श: । उद्दिष्टस्यासाधारणधर्मवचनं लक्षणम् ।... लक्षितस्य इदमित्थं भवति नेत्थं इति न्यायतः परीक्षणं परीक्षा'-प्रमाणमी० पृ० २।
'तदेतद्व्युत्याद्यद्वयं प्रति प्रमाणस्योद्दे शलक्षणपरीक्षा' प्रतिपाद्यन्ते, शास्त्रप्रवृत्तेस्त्रिविधत्वात् । तत्रार्थस्य नाममात्रकथनमुद्दे शः, उद्दिष्टस्यासाधारणस्वरूपनिरूपणं लक्षणम् । प्रमाणबलात्तल्लक्षणविप्रतिपत्तिपक्षनिरास: परीक्षा'-लघीय० तात्पर्य० पृ० ६ ।
'नाममात्रेण वस्तुसंकीर्तनमुद्दे शः । यथा 'द्रव्यम्' 'गुणाः' इति । असाधारणधर्मो लक्षणम् । यथा गन्धत्वं पृथिव्याः । लक्षितस्य लक्षणं सम्भवति न वेति विचार: परीक्षा'-तर्कसंग्रहपदकृत्य पृ० ५। .
पृ० ६ पं० १ 'परस्परव्यतिकरे'। तुलना-'परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणम् । हेम-श्यामिकयोर्वर्णादिविशेषवत्'--- तत्त्वार्थश्लोक पृ० ३१८ ।
पृ०६ पं० ४ 'द्विविधं' । तुलना—'तद्विविधम्, आत्मभूतमनात्मभूतविकल्पात् । तत्रात्मभूतं लक्षणमग्नेरुष्णगुणवत् । अनात्मभूतं देवदत्तस्य दण्डवत्'-तत्त्वार्थश्लोक पृ० ३१८ ।
पृ० ६ पं० २ 'सम्यग्ज्ञानं' । तुलना-'सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः'-प्रमाणपरीक्षा पृ० १, प्रमाणनि० पृ० १।
पृ० ६ पं० ६ 'संशयः' । तुलना-'संशयस्तावत् प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनादुभयविशेषानुस्मरणादधर्माच्च किंस्विदिति उभयावलम्बी विमर्शः संशयः'-प्रशस्तपादभा० पृ० ८५, ८६ ।