________________
प्रथमः सर्गः
५३
के विषय में वह स्वेच्छाचारी नहीं है । मनु इत्यादि धर्माचार्यों के उपदेशों के अनुसार वह दण्ड देता है ( ग ) दण्ड देने में वह पक्षपात नहीं करता । जिस आधार पर वह शत्रु को दण्ड देता है, उसी आधार पर वह अपने पुत्र को भी दण्ड देता है । जो अपराध करता है वह दण्ड पाता है, चाहे वह कोई भी हो । ( २ ) नकार की अनेक बार आवृत्ति होने से वृत्यनुप्रास अलंकार है ।
घण्टापथ - वसूनीति | वशी दुर्योधनो वसूनि धनानि वाञ्छन्न लोभान्नेत्यर्थः । 'वसु तोये धने मणौ' इति वैजयन्ती । निहन्तीति शेषः । तथा मन्युना कोपेन न च। ‘मन्युर्दैन्ये ऋतौ क्रुधि' इत्यमरः । 'धर्मशास्त्रानुसारेण क्रोधलेोभविवजित:' इति स्मरणादित्यर्थः । किन्तु निवृत्तकारणो निवृत्तलोभादिनिमित्त: सन् स्वधर्म इत्येव । स्वस्य राज्ञः सतो ममायं धर्मों ममेदं कर्तव्यमित्यस्मादेव हेतोरित्यर्थः । ‘अदण्ड्यान् दण्डयन् राजा दण्डयांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति' इति स्मरणादिति भावः । गुरूपदिष्टेन प्राड्विवाको पदिष्टेन । धर्मशास्त्रं पुरस्कृत्य प्राडविवाकमते स्थितः । समाहितमतिः व्यवहारानुक्रमात् । ' इति नारदस्मरणात् । दण्डेन दमेन । शिक्षयेत्यर्थः । रिपौ सुतेऽपि वा । स्थितमिति शेषः । एतेनास्य समदर्शित्वमुक्तम् । धर्मविप्लवं धर्मव्यतिक्रमम् । अधर्ममिति यावत् । निहन्ति निवारयति । दुष्ट एवास्य शत्र : शिष्ट एव बन्धुः । न तु सम्बन्धनिबन्धनः पक्षपातोऽस्तीत्यर्थः ॥ १३ ॥
विधाय रक्षान्परितः परेतरानशङ्किताकारमुपैति शङ्कितः । क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥ १४ ॥
अ०
- शङ्कितः (सन् ) परितः परेतरान् रक्षान् विधाय अशङ्किताकारम् उपैति । क्रियापवर्गेषु अनुजीविसात्कृताः सम्पदः अस्य कृतज्ञतां वदन्ति ।
श० - शङ्कितः = संदेहग्रस्त, संदेहयुक्त, आप लोगों से शङ्कित ( भयभीत ) । परितः = चारों ओर, सर्वत्र । परेतरान् = आत्मीय जनों को, विश्वासपात्रों को, भेद डालकर शत्रुओं को अपना बना लेने वाले लोगों को । रक्षान् विधाय = रक्षक नियुक्त करके | अशङ्किताकारम् = सन्देहरहित ( शङ्कारहित, भयरहित )