________________
प्रथमः सर्गः
४९ घण्टापथ-असक्तमिति । यथायथं यथास्वं विभज्य अमङ्कीर्णरूपं विविच्येत्यर्थः। 'यथास्वे यथ यथम्' इति निपातनाद् द्विर्भावो नपुंसकत्वं च । 'हस्वो नपुंसके प्रतिपदिकस्य' इति हस्त्रत्वम् । पक्षे पातः पक्षपातः आसक्तिविशेषः समस्तुल्यो यस्यां तया समपक्षपातया । भक्तथा अनुरागविशेषेण । पूज्येष्वनुरागो भक्तिरित्युपदेशः। पूज्यश्चायं त्रिवर्ग इति । असक्तमनासक्तम् । अव्यसनितयेति यावत् । आराधयतः सेवमानस्य अस्य दुर्योधनस्य । त्रयाणां धर्मार्थकामानां गणस्नगणः त्रिवर्गः। 'त्रिवर्गो धर्मकामाथ : चतुर्वर्गः समोक्षकैः' इत्यमरः। गुणानुरागात् तदीयगुणेष्वनुरागात् । गुणवदाश्रयलोभादित्यर्थः । सख्यं मैत्रीम् । 'सख्युर्यः' इति यप्रत्ययः। उपेयिवान् उपगतवानिवेत्युप्रेक्षा। 'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः । 'नात्रोपसर्गस्तन्त्रम्' इति काशिकाकार आह स्म। परस्परं न बाधते । समवतित्वादस्य 'धर्मार्थकामाः परस्परानुपमर्दैन वर्धन्त' इत्यर्थः। उक्तं च 'धर्मार्थकामाः सममेव सेव्याः यो टेकसक्तः स जनो जघन्यः' इति ॥ ११ ॥ निरत्ययं सामन दानवर्जितं न भूरि दानं विरहय्य सक्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सक्रिया ॥१२॥
अ०–तस्य निरत्ययं साम दानवर्जितं न (प्रवर्तते), भूरि दानं सक्रियां विरहय्य न (प्रवर्तते) विशेषशालिनी सक्रिया गुणानुरोधेन विना न प्रवर्तते ।
श-तस्य = उस (दुर्योधन) का। निरत्ययं = निर्बाध (बाधारहित, विघ्नर हित, निर्विघ्न), निष्कपट (पाखण्डरहित)। साम = सान्त्वना, मधुर वचन, सामनीति (साम, दाम, दण्ड, भेद में प्रथम)। दानवर्जितं न-दानरहित नहीं । भूरि दान-प्रचुर (प्रेभूत, बहुत) दान (धन का दान, धन का त्याग)। सक्रियां = आदर (सत्कार, सम्मान) को। विरहय्य न = छोड़कर नहीं। विशेषशालिनी = विशेष रूप से सुशोभित होने वाली । गुणानुरोधेन विना = गुणों (विद्या, सदाचार इत्यादि सद्गुणों) के अनुराग (विचार) के बिना ।
प्रवर्तते %D प्रवृत्त नहीं होती है।