________________
१२२
किरातार्जुनीयम् शिथिलवसु शिथिलधनमन्यत्र शिथिलरश्मिम् । 'वसुदेवेऽग्नौ रश्मौ च वसु तोये धने मणौ' इति वैजयन्ती। "शिथिलबलमिति पाठे तूमयत्रापि शिथिलशत्तिकमित्यर्थः। रिपुस्तिमिरमिवेति रिपुतिमिरम्। उदस्य निरस्य । उदीयमानम् उद्यन्तम् । 'ईङ् गतौ इति धातोदेवादिकात् कर्तरि शानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीः भूयः समभ्येतु भजतु । 'आशीषि लिङलोटौ' इति लोट् । चमत्कारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशन्दप्रयोगः । यथाह भगवान् भाष्यकार:-'मङ्गलादीनि मङ्गलमध्यानि मङगलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत् पुरुषकाणि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति । पूर्णोपमेयम् । मालिनीवृतम् । सर्गान्तत्वातभेदः । यथाह दण्डी-सगैरनतिविस्तीर्णैः श्राव्यवृत्तः सुसन्धिभिः। सर्वत्र भिन्नतान्तैरुपेतं लोकरन्जनम्' इति ।
अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति-इतीत्यादि। इतिशब्दः परिसमाप्तौ। भारविकृताविति फविनामकथनम् । महाकाव्य इति महच्छब्देन लक्षणसम्पत्तिः सूचिता । किरातार्जुनीय इति काव्यवर्णनीययोः कथनम् । प्रथमः सर्गः समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् । किरातार्जुनावधिकृत्य कृतोऽयं ग्रन्थः किरातार्जुनीयम् । 'शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः' इति द्वन्द्वाच्छप्रत्ययः । राघवपाण्डवीयमितिवत् । तथा घर्जुन एवात्र नायकः, किरातस्तु तदुत्कर्षाय प्रतिभटतया वर्णितः । यथाह दण्डी-'वंशवीर्यप्रतापादि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षकथनं च धिनोति नः' इति । अथायं सङ्ग्रहः-निता मध्यमपाण्डवो भगवतो नारायण त्यांशजस्तस्योत्कर्षकृते त्ववर्ण्यततरां दिव्यः किरातः पुनः । शृंगारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम्' इति ॥४६ ॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां
प्रथमः सर्गः समाप्तः।