________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ८३ तु मैत्रीयमिति । यथेष्टविनियोगयोग्यतावच्छेदकं च प्रतिग्रहादिना लब्धत्वमेवेति ।
८४ • तर्कसंग्रहः सुरतबिन्दरे इति शेषम् ॥
इति श्रीतर्कसङ्ग्रहफक्किका उपाध्यायश्रीक्षमाकल्याणविरचिता समाप्ता । श्रीरस्तु । सं. १८२४ रा. मि. वैशाखवदि २ दिने पं. अबीरेण लिखिता । शुभं भवतु । अजीमगंजमध्ये । कल्याणमस्तु ।
प्रवृत्तिजनिका या चिकीर्षा, चिकीर्षाजनकं यद् ज्ञानं तद्विषयो विधिरुच्यते । यद्वा प्रवृत्तिजनकचिकीर्षाजनकज्ञानविषयप्रतिपादको लिङादिविधिः । कृतिसाध्यत्वप्रकारकेच्छा चिकीर्षा । प्रवृत्तेर्जनकं प्रवर्तकमुच्यते, तत्कि भवतीत्याह-कृतीति । मेरुशृङ्गाहरणे इच्छा त्वस्ति परं तत्कृतिसाध्यं न भवति अत 'इदं मत्कृतिसाध्यम्' इति कृतिसाध्यताज्ञानमेव प्रवर्तकम् । न चेति-इदं मत्कृतिसाध्यं मदिष्टसाधनत्वात् इति ज्ञानं प्रवर्तकं बोध्यं तेन विषभक्षणं हि कृतिसाध्यं त्वस्ति परं इष्टसाधनं नास्ति ततो न तत्र प्रवृत्तिप्रसङ्गः । इष्टेति-इदं काम्यस्थले प्रवर्तकम् । नित्यस्थले नैमित्तिकस्थले च प्रवृत्ति प्रति कारणं किं भवति तदाह विहितेति । विहितं शास्त्रोक्तं यत्कालजीवित्वम् 'अस्मिन् काले इदं कार्य कृत्वा जीवनीयम्' इति । तथा निमित्तं तज्ज्ञानजन्यं यत्कृतिसाध्यताज्ञानं तदित्यर्थः । यदकरणे प्रत्यवायस्तन्नित्यम् । न चेति-एवं तर्हि अनुगमो न स्यात् इति चेत् ? न, स्वविशेषणवत्ताज्ञानजन्यकृतिसाध्यताज्ञानं प्रवर्तकम्, तेन अननुगमो नास्ति इति प्राभाकराः । तन्न, लाघवेनेति-इष्ट-इच्छाविषयः कृतिसाध्य यदिष्टं, तस्य या साधनता तद्ज्ञानं सामान्यतः प्रवर्तकम् । न च नित्ये इति-नित्येऽपि प्रत्यवायप्रागभावपरिपालनम् । पापक्षयश्च फलं कल्प्यते । ततश्च तत्रापि इष्टसाधनत्वान्न दोषः ।
श्रीजिनभक्तिसूरीन्द्र-पट्टभासनभास्कराः । श्रीजिनलाभसूरीन्द्राः आसंश्चन्द्रकुलेश्वराः ॥१॥ प्रीतिसागरनामानः, श्रीमन्तस्तत्सतीर्थ्यकाः । वाचकाऽमृतधर्माख्यास्तेषां शिष्या विचक्षणाः ॥२॥
तद्विनेयेन क्षमादिकल्याणेन मनीषिणा । तर्कसङ्ग्रहसूत्रस्य सवृत्तेः फक्किका इमाः ॥३॥
यथा श्रुता गुरुमुखात् तथा सङ्कलिताः स्वयम् । वसु नेत्रसिद्धि चन्द्र प्रमिते हायने मदा ॥४॥ चतुर्भिः कलापकम् ।