________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ६७ व्यापकवति व्याप्यज्ञानम् । उपमितौ यथार्थसादृश्यज्ञानम् । शाब्दज्ञाने यथार्थयोग्यताज्ञानम्, इत्याहनीयम् । पुरोवर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वात् अप्रमात्वं परत एव गृह्यते । पित्तादिदोषजन्यत्वम् उत्पत्तौ परतस्त्वम् । ननु सर्वेषां ज्ञानानां यथार्थत्वात् अयथार्थज्ञानमेव नास्तीति । न च 'शुक्तौ इदं रजतम्' इति ज्ञानात् प्रवृत्तिदर्शनाद् अन्यथाख्यातिसिद्धिः इति वाच्यम्, रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसम्भवात् । उपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन 'नेदं रजतम्' इत्यादौ अतिप्रसङ्गाभावाद् इति चेत् ? न, सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थिप्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात् ।
[इति तर्कदीपिकायां प्रामाण्यविचारः] ज्ञानानामिति । अथ ज्ञाननिष्ठं तद्वति तत्प्रकारकत्वरूपं प्रामाण्यं स्वतो ग्राह्य परतो वा इति विचार्यते । तत्रेति-तत्रैतत् संशयजनक वाक्यम् । ज्ञानेतितस्मिन्प्रामाण्याश्रयेऽप्रामाण्यस्य अग्राहिका या यावती ज्ञानग्राहिका सामग्री तद्ग्राह्य ज्ञानप्रामाण्यम्, एषा विधिकोटिः । तद्ग्राह्यत्वाभाववद् इति निषेधकोटिः । अत्र विधिकोटिर्मीमांसकानां, निषेधकोटिनैयायिकानाम् । तत्र मीमांसकानां मतत्रयम्-प्रभाकरमतम् १, मुरारिमिश्रमतम् २, भट्टमतम् ३ । त्रिष्वपि मतेषु स्वतस्त्वमस्ति परं सामग्रयां भेदः, यथा प्रभाकरमते ज्ञानमेव ज्ञानग्राहिका सामग्री १, मुरारिमिश्रमते अनुव्यवसायो ज्ञानग्राहिका सामग्री २, भट्टमते ज्ञाततालिङ्गकमनुमानं ज्ञानग्राहिका सामग्री ३ । ज्ञाततालिङ्गकमनुमानं यथा घटो ज्ञात: घटविषयकज्ञाततावत्त्वात् । ज्ञानेन विषये ज्ञातता जन्यते । ततो ज्ञाततया कृत्वा ज्ञानमनुमीयते, ज्ञानस्यातीन्द्रियत्वेनाप्रत्यक्षत्वात् । अथ विप्रतिपत्तिशरीरे यावत्पदं किमर्थं, तत्राह अनुमानेति । तस्मिन्नप्रामाण्यग्राहिका ज्ञानग्राहिका च सामग्री का वा भवति? अनुमानं तद्ग्राह्यत्वं प्रामाण्यस्य मतत्रयेऽपि सिद्धं वर्तते । ततश्च विधिकोटौ सिद्धसाधनं दोषः । निषेधकोटी बाधः । अतो यावदितिअथानुमानग्राह्यत्वं सिद्धमस्ति, परं यावती ज्ञानग्राहिका सामग्री अनुव्यवसायादिका
६८ • तर्कसंग्रहः तद्ग्राह्यत्वं सिद्धं नास्ति, अतो न दोषः । इदमिति-अप्रामाण्याग्राहिकेति[ग्राहकेति]पदं नोच्यते चेत् विधिकोटौ बाधः, निषेधकोटी सिद्धसाधनं स्यात् । तथा हि शक्तो 'इदं रजतम्' इति भ्रमज्ञाने अप्रामाण्यग्राहकः 'इदं ज्ञानमप्रमा' इत्यनुव्यवसायोऽस्ति । अथ इदं ज्ञानं 'यावद्ज्ञानग्राहिकासामग्री[ग्राह्यम्] अस्ति, परं प्रामाण्यग्राहकं नास्ति अतो बाधः तद्वारणाय अप्रामाण्यग्राहकेति । इदं ज्ञानमप्रमाण्याग्राहकं नास्तीत्यतो न दोषः । इदमिति-अथ शुक्ताविति भ्रमज्ञानेऽप्रामाण्यं, तथाऽस्य य इदमित्याद्यनुव्यवसायस्तत्र प्रामाण्यमस्ति । अर्थतत्प्रामाण्यस्य ग्राहकः 'इदं ज्ञानमप्रमेति ज्ञानवानहम्' इत्यनुव्यवसायोऽस्ति सः व्यवसायनिष्ठप्रामाण्यं गृह्णाति, अनुव्यवसायनिष्ठं प्रामाण्यमपि गृह्णाति तेनाऽस्य तृतीयज्ञानस्य अप्रामाण्यग्राहकत्वं नास्ति । ततश्चानुव्यवसायनिष्ठप्रामाण्यस्य स्वतो ग्राह्यत्वं नायाति अतः तदिति । अग्रेतनं सुगमम् । नन्विति-ननु प्रामाण्यस्य स्वत एव ग्राह्यत्वं कुतः ? इत्याह-घटमिति । अयं घट इति ज्ञानं प्राग्जातं, तदनन्तरं 'घटमहं जानामि' इत्यनुव्यवसायो भवति । अथायम् अनुव्यवसायो यथा घटघटत्वे विषयीकरोति तथा घटे यो घटत्वसमवायः तमपि विषयीकरोति । तत्र हेतुमाह-व्यवसायेति । अयं घट इति ज्ञानलक्षणायाः प्रत्यासत्तेरुभयत्र तुल्यत्वात् प्रामाण्यं किमुच्यते तदाह-पुरोवर्तिनि पदार्थे घटादौ यो घटत्वादिसमवायः स एव प्रामाण्यपदार्थः । एतेन स्वतोग्राह्यत्वं दृढीकृतम् ।
अथास्य खण्डनम् । स्वत इति-इदं जलमिति प्राथमिकजलज्ञानान्तरं 'जलज्ञानवानहम्' इत्यनुव्यवसायो भवति, तदनन्तरम् इदं जलज्ञानं प्रमात्मकं वा न इति अनावृत्तिदशायां प्रमात्वसंशयः सर्वानुभवसिद्धो वर्तते । अत्र संशयः कीदृग्भवति तदुच्यते, इदंत्वावच्छिन्नविशेष्यकप्रामाण्याभावप्रकारकः संशयः इति । अथ यदि स्वतः प्रामाण्यग्रह: स्यात् तर्हि अयं संशयो न स्यात् । कुत इत्याह-अनुव्यवसायेनेति । अथ स्वमतं स्थापयति-तथा हीति-इदं जलमिति प्रथमं जलज्ञानं जातं, तदनन्तरं जलाथिनः प्रवृत्तिः स्यात् । ततश्च जललाभे सति सोऽनुमानं करोति । तत्र पूर्वोत्पन्नं जलज्ञानं पक्षः, प्रमात्वं साध्यते, समर्थप्रवृत्तिजनकत्वं हेतुः । अत्र अन्वयव्याप्तिर्नास्ति दृष्टान्ताभावात् । यन्नवं= प्रमात्मकं न, तन्नैवं समर्थप्रवृत्तिजनकमपि न इत्यर्थः, यथाऽप्रमात्मकं ज्ञानम् इति व्यतिरेकिणाऽनुमानेन प्रामाण्यमनुमीयते गृह्यते इत्यर्थः । द्वितीयादिज्ञानेषु