________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ५१ पर्वतः । निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसम् । निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाहृदः ।
पक्षलक्षणमाह-सन्दिग्धेति । ननु श्रवणानन्तरभाविमननस्थले अव्याप्तिः, तत्र वेदवाक्यैः आत्मनो निश्चितत्वेन सन्देहाभावात् । किञ्च प्रत्यक्षेऽपि वह्नौ यत्र इच्छया अनुमितिः तत्र अव्याप्तिः, इति चेत् ? न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् । सपक्षलक्षणमाहनिश्चितेति । विपक्षलक्षणमाह-निश्चितेति ।
सन्दिग्धेति-'आत्मा श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति प्रथम वेदवाक्यैः श्रवणं, ततो मननं युक्तिभिः परिचिन्तनं, ततो निदिध्यासनं= श्रुतस्यार्थस्य नैरन्तर्येण दीर्घकालमनुसन्धानम्, तत आत्मसाक्षात्कारः । तत्र श्रवणानन्तरं भावि यन् मननं, तद् अनुमितिरूपं वर्तते, तत्राऽव्याप्तिः, कृतः ? वेदवाक्ये निश्चितत्वेन साध्यस्यात्मनः सन्दिग्धत्वाभावात् । पुनः प्रत्यक्षेऽपि वहावित्यत्रापि । अत्र उत्तरम् उक्तेति-साध्यसन्देह: पक्षता इति प्राचां मतम् । पक्षताविशिष्टः पक्षः । तन्मते तु उक्ताव्याप्तिस्तदवस्थैव अत: पक्षता-लक्षणं सिषाधयिषेत्यादि स्वीकृतं नव्यैः । अथ उक्तपक्षताश्रयत्वं पक्षलक्षणम् । एतेन यदि-सिषाधयिषा स्यात्तर्हि साध्यसन्देहाभावेऽपि अनुमितिः स्यादित्यर्थः, तेन उक्तस्थले नाव्याप्तिः ।
हेत्वाभासविभागः] सव्यभिचार-विरुद्ध-सत्प्रतिपक्षाऽसिद्धाबाधिता पञ्च हेत्वाभासाः ।
एवं सद्धेतून् निरूप्य असद्धेतून् निरूपयितुं विभजतेसव्यभिचारेति । अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम् ।
५२ • तर्कसंग्रहः असद्धेतून् आह अनुमितीति-अनुमितिः तथा तस्या अनुमिते: कारणीभूतं यद् ज्ञानं व्याप्तिज्ञानादिकम् एतदन्यतरस्य प्रतिबन्धकीभूतं यत् यथार्थज्ञानं, तद्विषयत्वं हेत्वाभासत्वं वर्तते पञ्चसु इति हेत्वाभासत्वम् । अत्रानुमितिपदं नोच्यते, 'अनुमितिकारणप्रतिबन्धकयथार्थज्ञानविषयत्वम्' इत्येवोच्यते चेत् बाधसत्प्रतिपक्षयोः अव्याप्तिः तयोरनुमितिप्रतिबन्धकत्वात् । अथ तत्कारणेति नोच्यते, 'अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वम्' एवोच्यते चेत् सव्यभिचारादित्रयेऽव्याप्तिः, तेषां व्याप्तिज्ञानादिप्रतिबन्धकत्वात् । अथ यथार्थपदं नोच्यते चेत् पर्वतो वहन्यभाववान् इति भ्रमदशायां सद्धेतोरपि बाधितत्वापत्तिः, अस्य भ्रमात्मकज्ञानस्याप्यनुमितिप्रतिबन्धकत्वात् । हेतोराभासाः दोषाः, यद्वा हेतव इव आभासन्ते इति हेत्वाभासाः दुष्टा हेतव इत्यर्थः ।
[सव्यभिचारलक्षणम्] सव्यभिचारोऽनैकान्तिकः । स त्रिविधः साधारणाऽसाधारणाऽनुपसंहारिभेदात् । तत्र साध्याभावववृत्तिः साधारणोऽनैकान्तिकः । यथा 'पर्वतो वह्निमान् प्रमेयत्वाद्' इति । प्रमेयत्वस्य वयभाववति हृदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । 'यथा शब्दो नित्यः शब्दत्वाद्' इति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति । अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा 'सर्वमनित्यं प्रमेयत्वाद्' इति । अत्र सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति ।
सव्यभिचारं विभजते-स त्रिविध इति । साधारणं लक्षयतितत्रेति । उदाहरति-यथेति । असाधारणं लक्षयति-सर्वेति । अनुपसंहारिणो लक्षणमाह-अन्वयेति ।