________________
चतुर्थं परिशिष्टम् ]
[४३ व्याघ्ररोल्य( पल्ल्य )भिधे ग्रामे, पूर्वजैः कारितं पुरा । येन तत्पुण्डवृद्ध्यर्थमुद्धृतं जिनमन्दिरम् ॥४५।। निरीन्द्रग्रामे वोडाख्यवालीनाथस्य मन्दिरम् । विघ्नसङ्घातघाताय, प्रजानामुद्दधार यः ॥४६।। स्थापयन् सिंहुलग्राममण्डने जिनवेशनि । यः श्रीवीरजिनं विश्वप्रमोदमदजीवयत् ॥४७॥ श्रीवैद्यनाथवरवेश्मनि दर्भवत्यां, यान् दुर्मदी सुभटवर्मनृपो जहार । तान् विंशतिं द्युतिमतस्तपनीयकुम्भानारोपयत् प्रमुदितो हृदि वस्तुपालः ॥४८॥ श्रीवीरधवलमूर्तिर्जयतलदेव्याश्च मूर्तिरसमश्रीः । श्रीमल्लदेवमूतिः, स्वमूतिरनुजस्य मूर्तिश्च ॥४९।। श्रीवैद्यनाथगर्भद्वारबहिभित्तिसम्भवे निलये । अन्तर्भक्तिनिमीलितकरकमलाः कारिता येन ॥५०॥ युग्मम् ॥ स्वविरोधिनीं शुचिर्बुवमुमारशय्ये च बदरकूपे च । यस्य प्रपां प्रपश्यन् , कलयत्यधिकाधिकं तापम् ॥५१॥ उद्दधारानुजो यस्य, तीर्थे कासहृदाभिधे । नाभेयभवनं तुङ्गं, स्वयमम्बालयं पुनः ॥५२॥ स्तम्भतीर्थे नगोत्तुङ्गे, धाम्नि भीमेश्वरस्य यः । शातकम्भमयं कुम्भ, केतने चाध्यरोपयत ॥५३॥ तत्र लोलाकृति दोलाकलां धोतीं च मेखलाम् । यो वृषं च तुषारांशुकान्तिकल्पमकल्पयत् ॥५४।। यः स्फुरन्मेदुरामोदे, तस्य गर्भगृहोदरे ।
मूर्ती न्यवेशयद् धीमानात्मनश्चानुजस्य च ॥५५॥ १. श्रीमालवेन्द्रसुभटेन सुवर्णकुम्भानुत्तारितान् पुनरपि क्षितिपालमन्त्री । श्रीवैद्यनाथवरवेश्मनि दर्भवत्यामेकोनविंशतिमपि प्रसभं व्यधत्त ॥१७५॥
उदयप्रभीयायां सुकृतकीर्तिकल्लोलिन्याम् ।।
15
D:\sukarti.pm5\3rd proof