________________
३८]
[वस्तुपालप्रशस्तिः काले यत्खड्गदण्डे रिपुकरटिशिरःस्यन्दसिन्दूरपूरैः, सन्ध्याबन्धं दधाने विरचितमुचितं मौक्तिकैस्तारकत्वम् । शीतज्योति:प्रकाशं तदनु समुदितं तद्यशो येन तेन, शश्वद्विस्तारिराकारजनिमहमहो ! विश्वतो विश्वमेतत् ॥२१॥ चण्डांशोरपि चण्डतामगमयद् यस्य प्रतापोदयः, शीतांशोरपि शीतमानमभजद् यस्य प्रसादोत्सवः । ब्रह्मास्वादनतोऽपि तोषमपुषद् यस्यावदातं यशस्तल्लोकोत्तरमस्य कस्य वचसां पात्रं चरित्राद्भुतम् ? ॥२२॥ यस्मिन् धर्मं पुरस्कृत्य, विपद्भ्यो रक्षति क्षितिम् । जने जन्यमजन्यं च, द्वयमप्राप्यतां गतम् ॥२३।। तस्मिन् काञ्चनकोटिभिः प्रणयिनां दारिद्यमुद्राद्रुहि, व्यक्तं काञ्चनशैलखण्डनविधावाखण्डल: शङ्कितः । भ्राम्यत्येव निदेशतोऽस्य तदयं राज्ञा ससूरः सदा, नक्षत्रैः परिवारितश्च परितोऽप्यद्याप्यमुं रक्षति ॥२४॥ नभस्ये निर्वृष्टाः शरदि न हि वर्षन्ति जलदाः, फलवातैरात्तैर्न खलु फलवृक्षाश्च फलिनः । प्रदुग्धा वा गावः पुनरपि न दुग्धानि ददते, कदाऽप्येतस्योच्चैर्न तु वितरणे श्राम्यति मतिः ॥२५।। दीपः स्फूर्जति सज्जकज्जलमलः स्नेहं मुहुः संहरन्निन्दुमण्डलवृत्तखण्डनपर: प्रद्वेष्टि मित्रोदयम् । सूरः क्रूरकरः परस्य सहते तेजो न तेजस्विनस् , तत् केन प्रतिमं ब्रुवीमहि महः श्रीवस्तुपालाभिधम् ॥२६॥ इति मलधारिश्रीनरचन्द्रसूरिकृता श्रीवस्तुपालप्रशस्तिः ॥ १. पद्यमिदं नरचन्द्रनाम्ना निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ३९सङ्ख्यगिरिनारसत्कशिलालेखे चतुर्थपद्यतया, पुरातनप्रबन्धसङ्ग्रहगतवस्तुपालप्रबन्धे २३९तमं सोमेश्वरदेवोक्तितयोल्लिखितं च वर्तते ॥ २. क्रूरतरः गिरिनारशिलालेखे पुरातनप्रबन्धसङ्ग्रहे च ॥ ३. ब्रवीमि सचिवं श्री गिरिनारशिलालेखे ।
D:\sukarti.pm5\3rd proof