________________
त्रयोदशं परिशिष्टम् ]
( ४ )
महामात्यश्रीवस्तुपालकृता आराधना ॥
न कृतं सुकृतं किञ्चित्, सतां संस्मरणोचितम् । मनोरथैकसाराणामेकमेव गतं वयः ॥१॥
अर्हन्तस्त्रिजगद्वन्द्यान्, सिद्धान् विध्वस्तबन्धनान् । साधूंश्च जैनधर्मं च, प्रपद्ये शरणं त्रिधा ॥२॥ कृतं षड्विधजीवानां, पीडनं क्रीडयाऽपि यत् । हास्यादिना विमूढेन, यन्मृषा भाषितं मया ||३|| परद्रव्येष्वदत्तेषु, यन्मनोऽपि नियोजितम् । कथञ्चिदभिलाषोऽपि, यदब्रह्मणि निर्मितः ॥४॥ मूर्च्छया विहितः कश्चिदाग्रहो यत् परिग्रहे । स्वप्नेऽप्याऽऽविष्कृता या च, रजनीभोजने स्पृहा ||५|| चक्रे कोपश्च यत्किञ्चिद्, या च काचिदहङ्कृतिः । माया लोभश्च यस्तत्र, मिथ्या दुष्कृतमस्तु मे ||६|| यद् वात्सल्यं कृतं नैव, यद् गुणा नानुमोदिताः । गुरवो यदवज्ञाताः, संस्तुता यत् कुतीर्थिकाः ॥७॥ कुदेशना च या चक्रे, यत् सिद्धान्तेऽप्यवासना । यत् सत्कर्मप्रमादश्च, निन्दामि तदशेषतः ॥८॥ ज्ञान-दर्शन- चारित्रं, गोचरे विहितं च यत् । मार्गानुसारतः सर्वांस्ताम्येयोरनुमा (मो) दये ( ? ) ॥९॥
त्यजामि पापमाहारं, बाह्ये मध्यमखण्डतः । श्रयेऽहं सुकृतं पारभविकं दुष्कृतं त्यजन् ॥१०॥
इति मन्त्रीश्वरश्रीवस्तुपालकृता आराधना ॥
D:\sukarti.pm5 \ 3rd proof
[ १३९
5
10
15
20