________________
10
दशमं परिशिष्टम् ॥
आचार्यश्रीउदयप्रभविरचिताया उपदेशमालाकर्णिकाख्यविशेषवृत्तेः आद्यन्तगते
मङ्गल-प्रशस्ती ॥ [आदिः]
अहँस्तनोतु भुवनाद्भुतकल्पवृक्षः, श्रेयःफलं निबिडबोधसुमप्रसूतम् । यस्याज्रिमूलमभितः पतितप्रसूनप्रायाः सुरा-ऽसुर-नराधिपसम्पदोऽपि ॥१॥ देवः स वः शतमखप्रमुखामरौघक्लुप्तप्रथः प्रथमतीर्थपतिः पुनातु । मुक्तक्रमो न [किल केवल एव लोके, भुक्तिक्रमोऽपि यदुपक्रममेष भाति] ॥२॥ चिन्तातीतफलप्रदः स दिशतु श्रेयो युगादिप्रभु|जुर्जन्मनि यस्य कल्पतरवः सर्वेऽप्युपादानताम् । नेत्थं चेत् कथमन्यथा वसुमतीमस्मिन्नलङ्कर्वति, त्रैलोक्यैकगुरौ न गोचरममी जग्मुर्जगच्चक्षुषाम् ? ॥३॥ तुङ्गेभभीममसितीव्रतरेण कर्मव्रातं व्रतेन विनिपाट्य भवाटवीषु । मुक्तावलिश्रियमशिश्रियदात्म[ना यः, श्रेयः श्रियतामतनुतां तनुतां स वीरः] ॥४॥ 15 लीलासञ्चरणं च नूपुररणत्कारश्रियं च स्वयं, बोद्धं साधु निषेव्यते खगकुलोत्तंसेन हंसेन या । किञ्जल्कग्रसनप्रसक्तमनसस्तस्यैव हेतोः करे, कुर्वाणा कमलं सतां भवतु सा ब्राह्मी परब्रह्मणे ॥५॥ जीयाद् विजयसेनस्य, प्रभोः प्रातिभदर्पणः । प्रतिबिम्बितमात्मानं, यत्र पश्यति भारती ॥६।।
१. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां प्रथमपद्यरूपेणापि वर्त्तते ॥ २. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां सप्तमपद्यतयाऽपि वर्त्तते ॥ ३. पद्यमिदं धर्माभ्युदयमहाकाव्ये प्रथमसर्गे चतुर्दशपद्यत्वेनापि वर्त्तते ॥
D:\sukarti.pm5\3rd proof