________________
प्रथमः सर्गः
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्यविक्षत । जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥ १९ ।।
स काञ्चन इति ॥ नवाम्बुदश्यामतनुः स हरिर्मुनेरनुज्ञया काञ्चने काञ्चनविकारे । वैकारिकोऽण्प्रत्ययः । यत्रासने न्यविक्षतोपविष्टवान् । निपूर्वविशो लुङि 'नेविशः' इत्यात्मनेपदे शल इगुपधादनिट: क्सः । (३।१।४५) तदासनं तदा हर्युपवेशनसमये, जम्वूर्नीलफल विशेषः । 'जम्बः सुरभिपत्रा च राजजम्बर्महाफला' इत्यभिधानरत्नमालायाम् । तयाजनिता श्रीर्यस्य तत्तथोक्तस्य । भाषितपुंस्कत्वात्पक्षे पुंवद्भावान्नुमभावः । सुमेरुशृङ्गस्य श्रियं जिगाय । अभिभावितवानित्यर्थः । 'सन्लिटोर्जः (७।३।५७) इति कुत्वम् । उपमानुप्रासयोः संसृष्टि: ॥ १६ ॥
अन्वय-नवाम्बुदश्यामतनुः सः मुनेः अनुज्ञया काञ्चने यत्र न्यविक्षत तत् आसनं तदा जम्बूजनितश्रियः समेरू शृङ्गस्य श्रियं जिगाय ॥ १९ ॥
हिन्दी अनुवाद -नवीन मेघ के समान श्याम शरीरवाले वे (श्रीकृष्ण) नारद मुनि की आज्ञा से सुवर्ण के जिस (आसन ) पर बैठे, उस आसन ने उस समय जामुन के वृक्ष के द्वारा उत्पन्न की गई शोभावाले सुमेरु पर्वत के शिखर की शोभा को जीत लिया ॥ १९ ॥
(सुमेरू पर्वत के शिखर पर उत्पन्न जामुन के वृक्ष से जैसे उसकी अलौकिक शोभा होती है, उसी तरह श्यामवर्ण श्रीकृष्ण ने भी नारद मुनि की आज्ञा से सुवर्ण सिंहासन पर बैठकर उस आसन की शोभा को बढ़ा दिया 1)
प्रसङ्ग--इस श्लोक में कवि माघ सुवर्णासन पर बैठे हुए कृष्ण की समुद्र से समता वर्णित करते हुए कहते हैं ।
स ततकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः । विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥
स तप्तेति ॥ तप्तं पुटपाकशोधितं कार्तस्वरं सुवर्णम् । 'रुक्म कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इत्यमरः (२।१०।१८६७ )। तद्वद्भास्वरं दीप्यमानमम्बरं यस्य सः । पीताम्बर इत्यर्थः । कठोरताराधिपस्य पूर्णेन्दोर्लाञ्छनस्य छविरिव छविर्यस्य स इत्युपमानपूर्वपदो बहुबिहिरुत्तरपदलोपश्च । स हरिडिवजातवेदसो वाडवाग्नेः शिखाभिर्वालाभिराश्लिष्टो व्याप्तोऽम्भसा निधिरिव समुद्र इव विदिद्युते बभौ ॥ २० ॥
अन्वयः–तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः सः वाडवजातवेदसः शिखाभिः आश्लिष्टः अम्भसा विधिः इव विदिद्युते ।। २० ॥
हिन्दी अनुवाद-तपे हुए सुवर्ण के समान दीप्यमान वनवाले (पीताम्बर२शि०व०