________________
द्वितीयः सर्गः
१२७
प्रसन-उद्धवजी अब पुनः शान्ति पक्ष में गुणान्तरों को कहते हैंक्षान्तिपक्ष एव गुणान्तरमाह
अनल्पत्वात्प्रधानत्वाद्वंश' स्येवेतरे स्वराः।
विजिगीपोर्नपतयः प्रयान्ति परिवारताम् ॥ ९०॥ अनल्पत्वादिति ॥ अनल्पत्वात्प्रज्ञोत्साहाधिकत्वादत एघ प्रधानत्वान्मण्डलाभिज्ञत्वात्, अन्यत्रानल्पत्वादुच्चस्तरत्वात् प्रधानत्वान्नायकस्वरत्वाच्च वंशस्य वंशवाद्य. स्वरस्य इतरे स्वरा वीणागानादिशब्दा इव । अथ वा आश्रयत्वाद्वंश इव वंशस्तत्कालविहितः स्वर उच्यते । तस्य स्वरस्येतराः षड़जादय: विजिगीषोर्न पतयोऽन्ये मण्डलपरिवतिनो राजानः परिवारतां पोष्यतां प्रयान्ति । तरकार्यमेव साधयन्तीत्यर्थः । तस्माद्विमृष्य कर्तव्यमित्यर्थः ॥ १० ॥
अन्वयः-अनरूपत्वात् प्रधानत्वात् घंशस्य इतरे स्वराः इव विजिगीपोः नृपतयः परिवारताम् प्रयान्ति ॥ ९० ॥
हिन्दी अनुवाद-प्रज्ञा ( बुद्धि ) और उत्साह की अधिकता से तथा मण्डलाभिन्न होने से प्रधान पदवी को प्राप्त विजिगीषु राजा के निकटवर्ती अन्य राजालोग वैसे ही सहायक हो जाते हैं जैसे बाघ विशेष के स्वर बांसुरी के प्रधान स्वर का अनुसरण करते हुए गायन को सफल बनाते हैं। अर्थात् अन्य स्वर प्रधान स्वर के परिवारव को प्राप्त होते हैं ॥१०॥
प्रसङ्ग-अब उद्धवजी शक्तिशाली एवं व्यापक प्रभुसत्ता सम्पन्न राजा का महत्व बताते हैं
अप्यनारभमाणस्य विभोरुत्पादिताः परैः।
वजन्ति गुणतामर्थाः शम्दा इव विहायसः ॥ ९१ ॥ अपोति ॥ किञ्च अनारभमाणस्य स्वयमकिञ्चित्कुर्वाणस्यापि विभोः प्रभोः व्यापकस्य च परैरन्यनृपतिभिः शङ्खभेर्यादिभिश्च उत्पादिताः, सम्पादिताः जनिताश्वार्थाः प्रयोजनानि विहायस आकाशस्य शब्दा इव गुणतां विशेषणतां कारणत्वाद् गुणवं व्रजन्ति । शक्तो हि राजा स्वयमुदासीन एवाकाशवत्स्वमहिम्नव कार्यदेशं व्याप्नुवन् शब्दानिव सर्वार्थानपि स्वकीयतां नयतीत्यर्थः। 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रिया मुख्यतन्तुषु' इति वैजयन्तिी ॥ २१ ॥
१. दंश ।