________________
११८
शिशुपालवधम् अथ प्रज्ञानवानपि न प्रमाद्येदित्याह
उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
हन्ति नोपशयस्थोऽपि शयालुर्मंगयुर्मुगान् ॥ ८॥ उपायमिति ॥ उपायमास्थितस्य प्राप्तस्यापि । उपायेनैव कार्य साधयतोऽपीत्यर्थः। किमुत व्यग्रतयेति भावः । प्रमाद्यतोऽनवधानस्य । 'प्रमादोऽनवधानता' इत्यमरः। अर्थाः प्रयोजनानि नश्यन्ति । तथा हि-शयालुनिद्रालुः । आलुचि शीङो वक्तव्यत्वादालुच । मृगान् यातीति मृगयुधिः । 'मृगय्वादयश्च इत्योणादिकः कुप्रत्ययान्तो निपातः। 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः' इत्यमरः । उपशेरतेऽस्मिन्नित्युपथयो मृगमार्गस्थायिनो व्याधस्यात्मगुप्तिस्थानं गर्तविशेषः । 'एरच्' ( ३।३।५६ ) इत्यच्प्रत्ययः । तत्र तिष्ठतीत्युपशयस्थोऽपि मृगान् न हन्ति । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८० ॥
अन्वयः-उपायम् आस्थितस्य अपि प्रमाद्यतः (पुंसः) अर्थाः नश्यन्ति । (यथा) शयालुः मृगयुः उपशयस्थः अपि मृगान् न हन्ति ।। ८० ।
हिन्दी अनुवाद-युक्ति के द्वारा कार्य सम्पन्न करनेवाला चतुर पुरुष भी उपाय रहने पर भी यदि प्रमाद करता है तो उसका कार्य नष्ट हो जाता है । जैसे सोनेवाला बहेलिया उपशय (मृगों के मार्ग में छिपकर बैठने का स्थान) में रहकर भी मृगों को नहीं मार सकता । प्रस्तुत श्लोक में अर्थान्तन्यासालङ्कार है । ८०॥
प्रसङ्ग-प्रस्तुत श्लोक में उद्धवजी पुनः 'उत्साह-शक्ति की आवश्यकता पर पल देते हैंएवं प्रज्ञाया आवश्यकत्वमुक्तम्, तथोत्साहस्याप्याह
उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१॥ उदेतुमिति ॥ जेतुमिच्छजिगीषुरेक एव द्वादशस्वपि राजसु मध्ये द्वादशस्वादित्येषु दिनकृद् यो दिनकरणे व्याप्रियमाण आदित्यः स इव ईहामुत्साहामस्यजन्प्रयुञान एव । न तु निरुद्योग इति भावः । उधेतुं कल्पते उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशक्तरपि मूलमित्यर्थः । 'नानालिङ्गत्वाद्धेतूनां नानासूर्यत्वम्' इति श्रुतेः । प्रतिमासमादित्यभेदाद् द्वादशत्वं, तच्चकस्य व द्वादशात्मकत्वम् । 'द्वादशात्मा दिवाकरः' इत्यभिधानात् । ते चार्यमादयः पुराणोक्ता द्रष्टव्याः । राजानस्तु
'अरिमित्रममित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥