________________
शिशुपालवधम्
लिलङ्घयिषत इति ॥ लोकल्लिङ्घयितुमिच्छतो लिलङ्घयिषतः । लङ्घयतेः सन्नन्ताल्लटः शतरि शस् । अलङ्घयान्स्वयं दुर्लङ्घयान् । कुतः - अलघीय सोऽतिगुरून् । अत एव यादवा अम्भोनिधय इवेत्युपमितसमासः, वेलेवेति लिङ्गात् । तान् यादवाम्भोनिधीन्भवतः क्षमा तितिक्षा वेलेव कुलमिव । 'वेला कूलेऽपि वारिधेः' इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्वं संहरेयुरिति भावः ॥ ५८ ॥
१०४
अन्वयः - लोकान् लिलङ्घयिषतः अलङ्घयान् अलघीयसः यादवाम्भोनिधोन् (हे कृष्ण !) भवतः क्षमा वेला इव रुन्धे ॥ ५८ ॥
हिन्दी अनुवाद - संसार को भी लांघने की इच्छा रखने वाले, पर स्वयं दुर्लङ्घ्य, बहुत बढ़े यादवरूपी समुद्र को केवल आपकी क्षमा ही तटकी तरह रोकती है ( रोक रही है ) ।। ५८ ।।
प्रसङ्ग - बलराम जी श्रीकृष्ण को कहते हैं कि विजय-लाभ तो विना किसी कष्ट प्राप्त हो जायगा, आपको तो केवल उपस्थित मात्र रहना है ।
अभ्युच्चयश्चायमपरो यदक्लेशेनैव ते विजयलाभ इत्याहविजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् । फलभाजि समीक्ष्योक्ते वुद्धेर्भोग इवात्मनि ॥ ५९ ॥ विजय इति ॥ सेनायाः कर्या विजयः साक्षिमात्रे उदासीने एव फलभाजि त्वयि समीक्ष्योक्ते साङ्ख्योक्ते । 'साङ्ख्यं समीक्ष्यम्' इति त्रिकाण्डः । आत्मनि बुद्धेर्महत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य कर्त्याः भोगः सुखदुःखानुभव इवापदिश्यतां व्यवहृयताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः । साङ्ख्या अप्याहुः 'कर्तेव भवत्युदासीन' इति, 'सर्व प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धि:' इति च ॥ ५६ ॥
अन्वयः - सेनायाः विजयः फलभाजि साक्षिमात्रे " एव" स्ययि समीयोके आत्मनि बुद्धेः भोगः इव अपदिश्यताम् ।। ५९ ।।
हिन्दी अनुवाद - सांख्यदर्शन के अनुसार बुद्धि ( महत्तत्व ) का सम्पूर्ण प्रपञ्च जैसे, पुरुष में समझा जाता है, यद्यपि वह उदासीन रहता है, ( वह ) कुछ करता नहीं, उसी तरह आप भी केवल उदासीन ही रहें, उपस्थित मात्र रहें, विजय तो सेना ही कर लेगी ॥ ५९ ॥
विशेष - बलराम जी श्रीकृष्ण को कहते हैं कि- जैसे सांख्यदर्शन के अनुसार पुरुष शान्तचित्तका निर्विकार द्रष्टा है । वह उदासीन है । 'कर्तेव भवत्युदासीनः ' ( सां० का० २० ) वस्तुतः बुद्धि ही प्रधान है । वह पुरुष के लिये समस्त शब्दादिकों के उपभोग को साधती है । 'सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः"